________________
॥ ॐ नमो वीतरागाय ॥ श्रीजिनभद्रगणिक्षमाश्रमणविरचितं
स्थोपज्ञवृत्तिसहितं विशे षा व श्य क भाष्य म्।
[ मङ्गलवादः ] कतंपवयणप्पणामो वोच्छं वरण-गुणसंगई सयलं ।
आवासयाणुयोगं गुरूवैदेसाणुसारेणं ॥१॥ प्रोच्यन्ते ह्यनेन जीवादयोऽस्मिन्निति वा 'प्रवचनम्' । अथवा प्रगतं प्रधान [प्रशरतम् आदौ वा वचनं [प्रवचनं-]' द्वादशाङ्गम् । अथवा प्रवक्तीति 'प्रवचनम्', तदुपयोगानन्यत्वाद्वा सङ्घः 'प्रवचनम् । प्रणमनं 'प्रणामः', पूजेत्यर्थः । कृतः प्रवचनप्रणामोऽनेन 'कृतप्रवचनप्रणामः' । “योच्छं" वक्ष्ये । चर्यते तदिति 'चरणं'-चारित्रम्, 'गुणाः'-मूलोत्तरगुणाः 'चरणगुणाः । अथवा चरणं-चारित्रम् , 'गुण' ग्रहणात् सम्यग्दर्शनज्ञाने, तेषां सङ्ग्रहणं 'सङ्ग्रहः' । सह कलाभिः 'सकलः' सम्पूर्ण इत्यर्थः । अस्ति ह्येतत्-देशसङ्ग्रहीतत्वाद् विकलोऽपि सङ्ग्रहः, अयं तु समस्तग्राहित्वात् सकलः । कथम् ? सामायिके एव द्वादशाङ्गार्थपरिसमाप्तेः । वक्ष्यते च-“सामाइयं तु तिविधं सम्मत्त सुतं तधा चरित्तं च ।" [गाथा ३१५७] इत्यादि । किं च सम्यग्दर्शनादित्रयेण न सङ्ग्रहीतम् ? अतः सकल इति, तं "चरणगुणसंगहं सयलं"। कश्चासौ ! "आवस्यकानुयोगः' अवश्यक्रियानुष्टानाद् आवश्यकम् , अनुयोजनमनुयोगोऽर्थव्याख्यानमित्यर्थः, आवश्यकस्यानुयोग आवस्यकानुयोगः, तमावश्यकानुयोगम् । गृणन्ति शास्त्रार्थमिति गुरवो ब्रुवन्तीत्यर्थः । ते पुनराचार्याः, अहंदादयो वा, तदुपदेशःतदाज्ञा, गुरूपदेशानुसारः- गुरूपदेशानुवृत्तिरित्यर्थः, तया गुरूपदेशानुवृत्त्या-गुरूपदेशानुसारेणेति ॥१॥ १ कयप सं। २ बुच्छं सं। ३ आवस्सयाणुओगं सं हे को त । ४ वएता हे के। ५ केवलमियमेव गाथा स्वोपज्ञवृत्तिप्रतौ सम्पूर्णा उल्लिखिता वर्तते । शेषगायानामाद्यद्विश्य क्षरप्रतीकान्येव गृहीतानि। ६ अत्र गा. १०६६, १११० च वृत्त्या सह अनुसन्धेये। ७ कृत प्रसं । ८ यक्षते सं। १ नादौ आव प्रतौ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org