________________
विशेषावश्यकभाग्ये णणु जं दुहाश्तारं दुक्खुत्तारं च तं दुरभिगम्मं । लोगम्मि पूइतं ज 'सुहावतारं मुहुत्तारं ॥१०३९।।
णणु गाहा । आह-ननु जैनस्य दुःखावतारत्वात् दुरुत्तारत्वाच्च दुरभिगम्यता। 'असौ भावतीर्थस्य नेष्यते, तरणक्रियाविघातित्वात् । लोके च मुखावतारोत्तारमिष्टम् , इष्टार्थप्रसाधनत्वात् ॥१०३९॥
एवं तु दबतित्थं भावे दुक्खं हितं लभति जीवो । मिच्छत्तण्णाणाविरतिविसयसुहभावणाणुगतो ॥१०४०॥ पडिवण्णो पुण कम्माणुभावतो भावतो परमसुद्धं । किय मोच्छिति जाणंतो परमहितं दु[६९-४०]ल्लभं च पुणो॥१०४१
एवं तु गाहा । पडिवण्णो गाहा । उच्यते-सत्यम् । एवं तु द्रव्यतीर्थमुक्तम् . भावतीर्थ पुनर्तुःखावतारोत्तारमेव गुणवदिष्यते । यतः कृच्छ्रेण हितमवाप्यते । परमहितं च सद्धर्मतीर्थम्, अशंपकर्मक्षयहेतुत्वात् । तत्रानादिकर्मसन्तानोपनिबन्धनो(ना!)ऽनादिमिथ्यादर्शनाज्ञानाविरतिमलीमसो विषयसुखस्थैचि( स्थैर्यापि)तश्च जीतश्च (!) जीव[:] कृच्छ्रेण दर्शनादिक्षयोपशमादिलाभात् सम्यग्दर्शनादिक्षयोपशमादिलाभाच्च सम्यादर्शनादित्रयाभिमुख्यं प्रतिपद्यतेऽभ्युपगतस्तु निःश्रेयसप्रसाधनमिदमसुलभं च भूय इति पश्यत्को हि नाम विद्वान् परित्यजेदित्यवं दुःखावतारोत्ता मिदम् । अत एव चाभिप्रेतसाधनमिति ॥१०४०-१०४१॥
अतिकक्खडं व किरियं रोगी दुक्खं पवज्जते ‘ढमं । पडिवण्णो रोगक्खयमिक्खन्तो मुंचते दुक्खं ॥१०४२।। इय कम्मवाधिगहितो संजमकिरियं पवज्जते दुक्खं ।
पडिवण्णो कम्मक्खयमिक्खंतो मुंचते दुक्खं ॥१०४३॥
अति० गाहा । इय गाहा । यथा नेहातिदुष्करां क्रियामातुरो दुःखेन प्रतिपद्यते । अभ्युपगतस्तु विधिवदुपासीनो रोगोपशमविशेषमीक्षमाणः विद्वान् कथं नाम तामुत्सृजेत् ! तद्वत्कर्मरोगान्त(तु)रसत्त्वो विषयापध्यादिपरित्यागदुष्करां स्वहितसम्पादनी संयमक्रियां कृच्छ्रेण प्रतिपद्यते । अभ्युगतः पुनरागमचक्षुपा कर्मरोगक्षयविशेपमीक्षमाणो विद्वान् कथं नाम तां त्यक्षतीति ! उक्तं तीर्थम् ॥१०४२॥१०४३॥ १ सुहोयत।२ म्यता सावती'-इति प्रतो। ३ मोच्छिहि त । ५ तमवाध्यते-इति प्रतौ । ५ 'मि को हेत। ६ 'मिच्छ को हेत। ७ रोगोयंसमवि इति प्रती।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org