________________
अक्षरथुतविचारः ।
?
पर्यायाणामस्तित्व पर्यायेणासम्बन्धाङ्गीकरणात् परपर्याया (य) व्यपदेशः । अन्यथा हि तत्पया एव तइति । आह-ननु यत एव तेऽस्तित्वेन (ना) संबद्रा, नास्तित्वेन च सम्बद्रास्तत्र,अत एव तस्य न सन्तीनि त्रूपे, न सर्वचैव न सन्तीति । अत एव ते तस्य परपर्याया इत्युच्यन्ते । अन्यथा हि स्वपर्याया इत्युच्यन्ते अन्यथा हि स्वपर्याया एव ते स्युरिति । अथवा यथैव ते तत्पर्याया विशेषेण [ते तस्येति वचनात् तथैव परपर्याया अपि विशेषण] विशेष्यादिभावाद घटरूपादिवत् । आह-न यथा घटस्य रूपादयः सन्तीत्येवं ते तस्य सन्तीति विशेष्य ब्रूमः । किं तर्हि ते तस्य न सन्तीति ब्रूमः । भवताऽपि च नास्तित्वसम्बन्धपर्यायोऽङ्गीक्रियते । नास्तित्वेन च कः सम्बन्ध[:] खल्वभावत्वात् खरविषाणवत् उच्यते- सद्विषयत्वान्निषेधस्य । ते तस्य न सन्तीति मृत्पर्यायेण न स [न्ति, अ] मृत्पर्यायेण सन्तीत्युक्तं भवति । घटादीनां तु तत्पर्यायेण सन्ति, अन्यपर्यायेण तेषामपि न सन्ति । किञ्चेह कस्य सर्वे सर्वात्मना विद्यते ? न हि घटस्य रूपादयः पटरूपादिभावेन विद्यन्त इति । नास्तित्वसम्बन्धपर्यायोऽपि च नाभावः सर्वथा, पर्यायान्तख्यपदेशात् प्रागुत्पत्यभाववत् । यथा हि मृदादिपर्यायो भाव एव घटाकारभावमात्रविशेषणात् प्रागुत्पत्त्यभावो भण्यते, घटाकारोपरमविशेषणाद्वा कपालादिपर्यायः प्रध्वंसाभाव इति, तद्वत्पर्यायान्तरापन्न नास्तीति न सर्वथैवाभावः तस्यानभिलाप्यत्वात् । स्वरांवेपाणादयोऽप्यनभिलाप्याभावप्रतिपत्त्यर्थमेव कृतसंकेतैरपदिश्यन्ते नाभाव इति ॥ १७७॥
चायसपज्जायविसेसणादिणा तस्स जमुवयुज्जन्ति । सघणमिवासंवद्धं हवंति तो पज्जया तस्स ॥४७८॥
चाय० गाहा । इह परपर्याया अध्यक्षरस्य पर्याया एवेति कुतः त्यागोपयोगाद्रोगापनयनादिवत् । इत पर्याय एव तं स्वपर्यायविशेषणोपयोगात् । इह यद्यस्य स्वपर्याविशेषणतयोपयुज्यते तत्तस्य पर्यायो दृष्टः, यथा घटस्य रूपादयः परस्परविशेषकाः पढादिपरपययविशेषका वेति । उपयुज्यन्तं चाकारादिस्वपर्यायाणां घटादिपर्यायाः स्वपर्यायविशेषणतया । अन्यथा हि परपर्यायानन्तरेण स्वपर्ययव्यपदेशो न स्यात् । एवमकाराऽनकाराऽक्षराऽनक्षरश्रुतादिपर्यायेष्वप्यायोजनीयमिति । इतश्च तत्रासम्बद्धा अपि तत्पर्याया एव ते । कुतः । तदुपयोगात्, स्वधनवत् ||४७८ ||
Jain Education International
सणमसंबद्धं पि हु चेतुण्णं पित्र परे जधा तस्स | उवउज्जति त्ति संघणं भण्णति तथ तस्स पजाया ||४७९ ॥
१ भांति जे ।
For Private & Personal Use Only
www.jainelibrary.org