________________
सप्तपदार्थी
१९७
१४६ १९२
ur
2
m
T.
.
२३१. विनाशः प्रध्वंसः । २३२. विभागत्वसामान्यवान् विभक्तव्यवहाराऽसाधारणं कारणं विभागः । . २३३. विभागानुत्पाद्यविभागप्रागभावसम्बन्धकर्मावच्छिन्नः कालः क्षणः । २३४. विभागाऽसमवायिकारणो विभागो विभागजः । २३५. विभागो द्विविधः । २३६. विशिष्टग्रहणं सविकल्पकम् । २३७. विशिष्टिस्तु विशेषणविशेष्यसम्बन्ध एव । २३८. विशेषस्तु सामान्यरहित एकद्रव्यवृत्तिः । २३९. विशेषा नित्यद्रव्यसमवेताः । २४०. विशेषास्तु यावन्नित्यद्रव्यवृत्तित्वादनन्ता एव । २४१. विषयः समुद्रादिः । २४२. विषयस्तु वृक्षादिकम्पजनकः । २४३. विषयो घटादिः । २४४. विषयो भौमदिव्यौदर्याकरजरुरूपः । २४५. विहतत्वं धर्मोत्पादकत्वम् । २४६. वैशिष्ट्यमन्यव्यावृत्तिः । २४७. व्यधिकरणमवच्छेदकमुपलक्षणम् । २४८. व्यापकं साध्यम, व्याप्यं साधनम् । २४९. व्यापकमात्रं सामान्यं परम् । २५०. व्याप्तिश्च व्यापकस्य व्याप्याधिकरणोपाध्यभावविशिष्टः सम्बन्धः । २५१. व्याप्यमानं सामान्यमपरम् । २५२. व्याप्यव्यापकरूपं गुणत्व-द्रव्यत्वादि सामान्यं परापरम् । २५३. शक्तिः स्वरूपमेव । २५४. शब्दगुणमाकाशम् । २५५. शब्दत्वजातियोगी श्रोत्रग्राह्यो गुणः शब्दः । २५६. शब्दस्याप्यनुमानविषयत्वेनाविनाभावोपजीवकत्वेन वाऽनुमानत्वम् । २५७. शब्दो वर्णात्मकोऽवर्णात्मकश्च । २५८. शरीरमरमदादीनां प्रत्यक्षसिद्धम् ।
२६९
३१३ ३१६
२२६
१६७
२२४
१६८
१६९ ९८
१३३
२३६
८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org