________________
सप्तपदार्थी
१८६
३१८ १२३
२६६
२७५
१०३. गुणास्तु रूप-रस-गन्ध-स्पर्श-सङ्ख्या -परिमाण-पृथक्त्व
संयोग-विभाग-परत्वा-ऽपरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष___प्रयत्न गुरुत्व-द्रवत्व-स्नेह-धर्मा-ऽधर्म-शब्दाश्चतुर्विशतिरेव । १०४. गुरुत्वजातिमदेकवृत्ति आद्यपतनाऽसमवायिकारणं गुरुत्वम् । १०५. गुरुत्वं समाहाररूपमेकावयविनिष्ठं च । १०६. जलमात्रेन्धनं तेजो दिव्यम् । १०७. जातिप्रत्यासत्तिरधिकरणत्वम् । १०८. जातिमत्त्वेऽचलनात्मकत्वे सति समवायिकारणरहितश्चेति । १०९. जातिः सत्ता-द्रव्यत्व-गुणत्व-कर्मत्वादि । ११०. ज्ञातता ज्ञानसम्बन्ध एव । १११. ज्ञानज: संस्कारो भावना । ११२. ज्ञानसम्बन्धो ज्ञानविषयत्वम् । ११३. ज्ञायमानकरणजन्यस्तत्त्वानुभवोऽनुमितिप्रमा । ११४. तच्च ईश्वरघ्राणरसनचक्षुःस्पर्शनश्रोत्रमनोलक्षणम् । ११५. तच्च प्रागभावप्रध्वंसाभावरहितस्वरूपत्वम् । ११६. तच्च व्याप्तिपक्षधर्मताविशिष्टं लिङ्गज्ञानम् । ११७. तच्च सुवर्णादि । ११८. तत्र द्रव्याणि पृथिव्यप्तेजो-वाय्वाकाश-काल-दिगात्म-मनांसि नवैव । ११९. तत्र पदार्थलक्षणं कृतमेव । १२०. तत्र व्यापकवचनं प्रतिज्ञा । १२१. तत्र समवायिकारणम्, असमवायिकारणं, निमित्तकारणं चेति त्रिविधम् । १२२. तत्त्वज्ञानेन नियमेनावच्छेद्यत्वं प्रमेयत्वम् । १२३. तत्त्वमनारोपितरूपम् । १२४. तत्त्वानुभवः प्रमा । १२५. तदपि लिङ्गं स्वार्थं परार्थं च । १२६. तदपि शरीरेन्द्रियविषयरूपम् । १२७. तदभावोऽमूर्तत्वम् । १२८. तदाभासाः असिद्ध-विरुद्धा-ऽनैकान्तिका-ऽनध्यवसित-कालात्ययापदिष्ट
प्रकरणसमाः ।
२१८ २२१ १९५ २२३ १८९
२३७
२७६
२१३
६७
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org