SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 607 न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा । तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥२ 608 गवादीनां पयोऽन्येद्यः सद्यो वा दधि जायते । क्षीरोदधिस्तु नाद्यापि महतां विकृतिः कुतः ॥३ 609 यस्याम्बुकणिकाप्यास्ये न विनश्यत्यर्थिनः क्वचित् । कष्टं अम्भोनिधिः सोऽपि नदो न इति कथ्यते ॥४ 610 यातु नाशं समुद्रस्य महिमा विश्वविश्रुतः । वाडवः क्षुत्पिपासा” येनैकोऽपि न तर्पितः ॥५ 611 पिपासितेन पान्थेन यत्पीतं क्षारवारिधौ । तदेव विदहत्यन्तः पुनःपानस्य का कथा ॥६ 615 विरसोऽस्तु पयोगशिश्छिद्यन्ते यावता तृषः । पयः कुग्रामकूपेऽपि तावन्मानं भविष्यति ॥७ अथ शृङ्गार। 613 वीरः स्मरो जयत्येकस्तुल्यो यस्य विजम्भते । शरसंधानसंरम्भः पशौ पशुपतावपि ॥१ अथाद्भुतः।* 614 दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिज्जितः । वानरैर्वेष्टिता लङ्का जीवद्भिः किं ने दृश्यते ॥१ 615 गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्ध रामरावणयोरिव ॥२ अथ नृपोपलम्भः । 616 त्वयि प्रकुपिते देव त्वमेव शरणं मम । भूमौ स्खलितपादस्य भूमिरेवावलंबनम् ॥१ 617 भूरुहां भूभुजां प्रायः प्रारोहः प्रणयी पुनः । यो यथा जायते पूर्व स तथा निपतत्यधः ॥२ अथाभिसारिका ।* 618 निभृतं निशिगच्छन्त्यास्तत्सङ्केतनिकेतनम् । किङ्किणीक्वाणवाचाला मेखला मे खलायते ॥१ .. 607. ख प्रतौ न विद्यते । 609 ख प्रतौ न विद्यते । *प प्रतौ अथादभुतम् । 617 ख प्रतौ न विद्यते । 617 ख. प्रारोह प्रणयी जनः ।। 618 ख प्रतौ अभिसारिकापद्धतिः नास्ति ॥ 618 ख प्रतौ न विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy