SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः अथ कोकिलः। 596 काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलसङ्गेऽपि नैष्ठुर्य कल्याणपकृतेः कुतः ॥१ 597 कोकिल चूतशिखरे मञ्जरीरेणुपि नरः । गदितैर्व्यक्तिमायाति कुलीनश्चेष्टितैरिव २ अथ अगस्तिः । 598 अगस्तिचुलुके क्लुप्तसप्तवारिधिवारिणि । मुहूते केशवेनापि तरता पूतरायितम् ॥१(१) 599 अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधिः । हा स एव मुनेः पाणिरधस्तात् विन्ध्यभूभृतः ॥२ 600 बरं मौरजिकस्यापि करद्वयमधोमुखम् । वेदाभ्यासोऽपि धिक्कष्टमुत्तानकर कारकः ॥३ अथ कमलम् । 601 वरमश्रोकता लोके नासमानसमानता । इति गर्दभको दे कमलैर्मुकुलायितम् ॥१ 602 मद्गुणान्वीक्ष्य मा या सोल्लक्ष्मी गुणविरोधिनी । इतीव कमलं नाले गोपायति निजान् गुणान् ॥२ अन्तच्छिद्राणि भूयांसि कण्ट का बहवो बहिः । कथं कमलनालस्य मा भुवन्भगुण गुणाः ॥३ 604 लक्ष्मीसंपर्कतः सोऽयं दोषः पयस्य न स्वतः । यदेव गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ॥४ अथ भृङ्गः। 605 केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषः करोति किं नाम गुणापहृतचेतसः । अथ समुद्रः। 606 यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथाऽपि जानुदध्नोऽयमिति चेतसि मा कृथाः ॥१ 596. ख० प्रवृद्धस्य । ख० कलगिरः ॥ 605. भृङ्गपद्धतिः ख प्रतौ नास्ति ॥ 606 ख प्रत्तो न विद्यते ॥ 603 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy