________________
सूक्तिरत्न कोषः
389 सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।
प्रारम्भे कृतबुद्धिनां सिद्धिव्यभिचारिणो ॥ ६ १ 390 चतुरः सृजता पूर्वमुपायांस्तेन वेधसा ।
न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥६२ 391 जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृतं चिन्तयन्त्यभ्यं प्रियः को नाम योषिताम् ॥६३ [भर्तृहरि सु. सं. २.४७]
1392 यदन्तस्तन जिह्वायां यज्जिह्वायां न तद्बहिः । हिस्तन्न कुर्वन्ति विचित्रचरिताः स्त्रियः ॥ ६४ 393 सभा वा न प्रवेष्टव्या वक्तव्यं वाऽसमञ्जसम् । अब्रुवन्वब्रुवन्वाऽपि नरो भवति किल्बिषी ॥ ६५ 394 दूरस्थेन प्रवृत्तस्य जनकोऽपि प्रकुप्यति ।
अनुजायस्य (?) पन्थानं स कृसोऽप्येतदासताम् (१) ॥६६ अथ कृपण: 1
395 विडम्बनैव पुंसि स्त्री परप्रणयपांसुला ।
कान्ति कामिव कुर्वीत कुणौ कङ्कणकल्पना ॥१ 1396 दारिद्रस्य परा मूर्तिर्याच्ञा न द्रविणाल्पता । जरद्गवधनः शम्भुः तथाऽपि परमेश्वरः ॥२ 397 कृपणेन शवेनेव मृतेनापि न दीयते ।
मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥ ३ 398 उदारचरितात् रागी याचितः कृपणोऽधिकः ।
एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥४ 399 अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा ।
तदिदं देहि देहीति विपरीतमुपस्थितम् । ५ 400 कण्ठे गद्गदभाषित्वं मुखे वैवर्ण्यवेपथुः ।
Jain Education International
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥६
390 155 तम श्लेकोऽयं पुनरावृत्तोत्र प. प्रतौ स्त्रीप्रशंसायां वर्तते । नोपलभ्यतेऽत्र स्थाने व प्रतौ। 394 प० प्रतौ श्लोकोऽयं दुर्वाच्यः । ख प्रतौ नोपलभ्यते । 395 प० विडंविनैच; प० परप्रणयपांसुले । 400 ख. प्रतौ नास्ति ।
३३
For Private & Personal Use Only
www.jainelibrary.org