SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 376 उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी। तादृशो यदि पूर्व स्यात्कस्य न स्यात्फलोदयः ॥४८ 377 वर्जयेत्कासवान् चौर्य निद्रावान् चर्मचोरिकाम् । रोगवान् रसनालौल्यं धनवान् सर्वतः कलिम् ॥४९ 378 कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः । बन्धक्यो यं प्रशंसन्ति स राजन् पुरुषाधमः ॥५० 379 माज्ञामङ्गो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥५१ 380 पादमायान्निधिं कुर्यात् पादं वित्ताय ख(?स)ट्टयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥५२ 381 परस्त्री मन्दरूपाऽपि विकरोत्येव मानसम् । यदपथ्यं शरीरस्य तद्धि मन्दाय रोचते ॥५३ 382 ग्रहाणां चरितं स्वप्नं निमित्तमुपयाचितम् । फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यसि ॥५४ 383 यथा व्याधी हरेत्पुत्रान् दंष्ट्राभिर्न [तु] पीडयेत् । भीता पतनभेदाभ्यां तथा वर्णान् समुच्चरेत् ॥५५ 384 त्रिभिर्वर्षे त्रिभिर्मासैनिभिः पक्षैत्रिभिःर्दिनैः । अत्युप्रपुण्यपापानामिहैव फलमश्नुते ॥५६ 385 योनौ कर्मणि बीजे च यस्य न स्याव्यतिक्रमः । तस्य कृच्छ्रगतस्यापि न पापे रमते मतिः ॥५७ 386 ग्रामो नास्ति कुतः सीमा पत्नी नास्ति कुतः सुतः । प्रज्ञा नास्ति कुतो विद्या धर्मों नास्ति कुतो दया ॥५८ 387 अनागतविधातारमप्रमत्तमकोपनम् । _चिरारम्भमदीनं च नरं श्रीरुपतिष्ठते ॥५९ 388 धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् । सेवा न किञ्चिदस्तीति नाहमस्मीति साहसम् ।६० 377 ख. धनवानन्यतः कलिम् । 378 ख. पुरुषोधभः। 382 ख. प्रतौ न विद्यते । 383 ख. सीतापतनभेदा०, समुद्गरेत् । 384 ख. प्रतौ न विद्यते । 385 प. प्रती न विद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002653
Book TitleSuktiratnakosa
Original Sutra AuthorN/A
AuthorLakshman, Nilanjana Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy