________________
वाचकश्रीजिनमाणिक्यगणिविरचिता रत्नाकरावतारिकाद्यश्लोकशतार्थी । वितरतु परमार्थरमां परमः परमेष्ठिनां जिनश्चरमः । अपि नखरांशुरुचिररुचि यस्य क्रमकमलमम्लानम् ॥१॥ संस्कुरुतां मम वाचं सरस्वती रसवती रसवतीवत् । यत्पदपङ्कजसेवां सृजति मरालीवदमराली ॥२॥ शिष्यानिव परमतिनोऽप्यनुत्तरान् यैः प्रणीय निज-परयोः । साम्यमसूचि शुचिमतोद दतु श्रीसोमसुन्दरमुनीन्द्राः ॥३॥ शक्तिः प्रजापकृदपि स्वयं यदीया प्रजापकृतितोऽन्याः । शक्तीर्यवर्तयदमी मुनिसुन्दरसूरयः सिद्धयै ॥४॥ अनवरतनवरसामृत-वादमहोदधिसु[धावगाहनतः । लब्धगुरुबिरुदमणयो जयन्तु जयचन्द्रसूरीन्द्राः ॥५॥ प्रति गौतमतः सम्प्रति निष्प्रतिमप्रतिभया प्रतीतिभृतः श्रीरत्नशेखरगुरूत्तमाः शशिगणेऽत्र विजयन्ते ॥६॥ नतसुमनोजननिकराः पवित्रसत्कुलधरा धरावलये । विजयन्ते जयवन्तः श्रीमदुदयनन्दिसूरीन्द्राः ॥७॥ विदधतु बुधप्रमोदं ते श्रीचारित्ररत्नगुरुचन्द्राः । उदवेलि गोविलासैथैर्मम हृदि शाब्ददुग्धाब्धिः ॥८॥ इत्यहणीयसन्दोहं नत्वा तत्त्वार्थसिद्धये ।
'सिद्धये वर्धमानः स्ताद्' इति श्लोकं विवृण्महे ॥९॥ इह हि चतुरचतुरङ्गसभासमक्षप्रारब्धवादानेकप्रतिवादिवृन्दप्रदत्तापमानसकलकलापात्रमात्रातिगच्छात्रसूत्रितचित्रबिरुदावलीवर्धमानाभिमानकुमुदचन्द्राभिधानदिगम्बरप्रधानविजयप्राप्तयशःपताकैः प्राचीनार्वाचीनाचार्यचक्रचक्रवर्तिभिः श्रीदेवसरिभिर्विरचिते स्याद्वादरत्नाकरेऽवतारकारिकायाः श्रीरत्नाकरावतारिकायाः सकलसहृदयहृदय
१ चन्द्रगच्छे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org