________________
११५
1
अलभं च प्रत्यूहशलभं तस्य सं ० हे प्रत्यूहशलभ ! त्वं 'नख' इति नः अस्माकं वर्धमानं दिनं दिनं प्रति वर्धनशीलं स्तादिति सम्बन्धः । त्वं किम्भूतं ? पञ्चम्याः ह्यस्तन्याः अद्यतन्या वा युष्मदर्थबहुवचनं तैर्युक्ता । 'अम् शब्दभक्त्योः ' [ ३९१] इति अम्, 'कैं गैंरैं शब्दे' [३६-३८] रैं 'अन् श्वसक् प्राणने' [१०८९] अन् एते धातवो यस्मिन् तत् ताम्रायन् एतेषां परस्मैपदसम्भवात् । तथा खेन खानुबन्धनम् मोऽन्तः “खित्य नव्यय ०” [३ । २ । १११] इति यस्मिन् तत् खम्-यथा- पण्डितंमन्य इति । तथा अ अनुस्वारस्तं लातीति "आतो डः०" [५ । १ । ७६ ] इति डे, ड-लयोरैक्यात् अण्डः, लीः 'लीच् लेषणे' [ १२४८] इति धातुर्यस्मिन् तत् अण्डलाः । अत्र व्याकरणस्य नपुंसकत्वेऽपि धातुग्रहणात् "क्लीबे" [२ । ४ । ९७ ] इति न ह्रस्वः । पुनः किम्भूतम् ? 'पू' 'ऌ' 'ओ' 'घ्' एते इत् अनुबन्धा यस्मिन् तत् प्लोषेत् यथा* रुधूंपी [१४७३] ‘गम्लुं गतौ' [३९६] इति, 'ओलस्जैति' [१४७०] 'डुलभिंषु' [७८६] इति । पुनः किम्भूतं ? कुः स्थानम्, कस्याः ? आयतेः - विस्तारस्य । पुनः केषाम् ! ईङ्च् गतौ' [१२५२] ई, प्रपूर्वो 'दीङ्च् क्षये' [१२४४ दी, 'पांकू रक्षणे' [१०६७] 'पां पाने' [२] वा पा, एतेषां द्वन्द्वे “लुगातोsनापः " [२ । १ । १०९] इत्यालोपे सिद्धम् प्रदीपाम् ॥ १११ ॥
इति श्री ४ सोमसुन्दरसूरि-तत्पट्टप्रभाकरश्रीजयचन्द्रसूरि-वाचकचक्रचक्रवर्ति-चरित्ररत्नगणिशिष्य श्री जिन माणिक्यगणिविरचिता शतार्थी जीयात् ।
आसीत् सोमगणव्योमसोमः श्रीसोमसुन्दरः । स्वरिर्भूरिगुणग्रामरामणीयकमन्दिरम् ॥१॥ तत्पट्टोदयशैलाग्र - जाग्रत्तरदिवाकराः मुनिसुन्दरसूरीन्द्राः पारीन्द्राः परवारणे ॥२॥ सूरिः श्रीजयचन्द्रोऽभूद् यशोनिस्तन्द्रचन्द्रिकः । कृतिनामाननं येनाकारि कैरवकाननम् ॥३॥ तत्पकमलाभाले कालेयतिलकाकृतिः । अभूत् प्रभूतविद्याभूः सूरिः श्रीरत्नशेखरः ॥४॥
१ तैः 'त' प्रत्ययैः अत्र 'त्वम्' किम्भूतम्' इत्यस्य अनुसंधानात् 'युक्तम्' इति उचितः पाठः २ अत्र प्रतौ 'उ' 'म्' इति लिखितः पाठः तथापि तेन 'प्लोषेत्' इति न सेत्स्यति ततः 'ओलस्जैति' इत्यत्र 'ओकार' दर्शनात् अस्माभिः 'ओ' ष्' इति संशोध्य उचितः पाठः स्वीकृतः । ३ 'रुधूंपी' अत्र प्, 'गम्' अत्र ल, 'ओलस्ज' अत्र 'ओ' तथा 'लभिष्' अत्र - एवम् एते प्-लु-ओ- अनुबन्धा ज्ञेयाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org