________________
मैकवचनम् । इदं पद निम्ब' शब्दमध्यगतम् 'म्'वर्ण सूचयति । ८ अण्ड + ली = अण्डलीः प्रथमैकवचनम्-'निम्ब' विशेषणम् । ९ सप्तम्यन्तम् । १० दीप्र + दीप + अङ्कुर+अस्= दीप्रदीपाकुराः-प्रथमैकवचनम्-'निम्ब' विशेषणम् । ११ य + ता+ई = यतेः - एकारान्तम् प्रथमेकवचनम् 'निम्ब' विशेषणम् । ]
___ व्याख्या-वकारेण ऋद्धो मा वाचको नः अस्माकं सिद्धये रोगापहारादिकार्यनिष्पत्तये स्तात् इति सम्बन्धः । किम्भूतः ? इकारम् अङ्गति गच्छति इति क्विपि सौ पदस्य" [ २ । १ । ८९ ] इति गलोपे यत् इकारान्वितो यो न् नकारः तस्मिन् अखः अशून्यः म् मकारो यस्मिन् स यन्नखम् एतावता निम्बः इत्यर्थः । किं तया पत्रादिश्रिया आम्रवत् सहकारवत् असति शोभते क्विपि ताऽऽम्राः । पुनः किं० अण्डानि पक्षिपेश्यः तेषां लीः श्लेषो यस्मिन् स अण्डलीः पक्षिणां मालकादिसद्भावात् । पुनः किं० दीप्रो यो दीपः प्रदीपस्तत्सदृशा अङ्कुराः प्ररोहाः पत्राद्युद्भवाः तैः असति शोभते क्विपि दीप्रदीपाङ्कुराः । कस्मिन् ? प्रत्यूहा विघ्नाः तद्धेतुभूता रोगादयस्त एव शलभाः पतङ्गाः तेषां प्लोषे विनाशे यथा दीपः पतङ्गान् तथाऽयमपि रोगान् दहती त्यर्थः । पुनः किं० “यस्तु मातरिश्वनि" [ ] इत्येकाक्षरात् यः वातः तेन तां शोभाम्, ईयते गच्छतीति क्विपि यतेः ॥ १०६ ॥
इति निम्ब व्यावण्ये वातं वर्णयति तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्य॒हशलभप्लोषे दीपदीपाकुरायते ॥१०७॥ [सिद्धयेवैधमानस्तात्ताम्रा यद् नें खमण्डलीं।
प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१०७॥] [१ सित् + हय + ईपू = सिद्धयेब् - प्रथमान्तम् । २ आ + ऋद्ध + मान = अर्धमानः - प्रथमान्तम् । सिद्धयेब् + अर्धमानः - सिद्धयेबर्धमानः = सिद्धयेवर्धमानः । ३ ता + आत्त + आम्र + अस् = ताऽऽत्ताऽऽम्रास्तात्ताम्राः-प्रथमान्तम्- 'वन'स्य बिशेषणम् । अथवा त + आत् = तात् + तान + असू = तात्ताम्राः । ४ यद् यस्मात् अथवा 'यत्' प्रथमान्तम् ५ न निषेधवाची । न अतेः - न गच्छेः इति न अपि तु अतेः एव - गच्छेः एव इति आशयः ६ खमण्डलीम् - द्वितीयान्तम् । 'अतेः' कर्मकारकम् । ७ प्रति + ऊ + हन् = प्रत्यूह + शलभ + प्लोषे = प्रत्यूहशलभप्लोषे सप्तम्यन्तम् । ८ दीप्र + दीप +अङ्कर + अस् = दीप्रदीपाङ्कराः प्रथमान्तम् । पाङ्कराः + अतेः = पाङ्करायतेः = पाङ्करायते । ९ अतेः 'अत्' धातोः सप्तम्यां द्वितीयपुरुषैकवचने अतेः । ]
व्याख्या-हे अँ ! अत्र विरामविवक्षया “ अ-इ-उवर्णस्यान्ते० " [१ । २ । ४१ ] इत्यनुनासिकः । न वाया त्वं खमण्डली नभोमण्डलम् अतेः सततं
१ अयं पाठः अस्पष्टः, तस्य स्थाने 'अ वायो ! त्वम्' इति अथवा 'न वायाः त्वाम्' इति पठ्येत तदा कोऽपि अर्थः ज्ञातु सुगमः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org