________________
१००
चौरपुत्राणाम् ऊर्भावः - सत्ता - तं जहासीति -त्यजसीति " आतो डः ० " [५ । १ । ७६] इति डे प्रत्यूहः तस्य सं० । हे ख ! सूर्य ! त्वं शलभप्लोपे दीप्रदीपाङ्कुरायतेःर-लयोरैक्यात् - शरं जलम्, भानि नक्षत्राणि, प्रकृष्टा उषा रात्रिः, तथा ईं कामम्, ‘दैङ् पालने' [६०४] दयते पालयतीति क्विपि परमते ईकारे इदीर्यः प्रदीपः ई लक्ष्मीः - कान्तिः-तया - दीप्रो दीपनशीलो दीपः प्रदीपो वा । तथा अङ्कुरा नवीनोद्गतलताप्ररोहाः तेषाम् आयतिर्विस्तारः, तस्याः सिद्धये । 'विधू गत्याम्' [३२०] क्तौ - सिद्धिर्गतिर्विनाश इति यावत् । तस्मै स्तात् । सूर्योद्गमे हि जलं शुष्यति । भानि, उषाऽपि, प्रदीपोऽपि अङ्कुरा अपि च क्षयन्तीति एवंवर्णनम् । त्वं किं० मण्डलं विम्बं विद्यते यस्य " अतोऽनेकस्वरात्" [ ७ । २ । ६ ] इनि मण्डली । पुनः किं० : ऊः कान्तिः - तथा अर्धो हीनः - अर्थात् सूर्यात्-इति वध यो माश्चन्द्रः तस्मिन् नससे प्रतिकूलीभवसीति क्विपि वर्धमानः । अत्र " अभ्वादेः ०" [१ । ४ । ९० ] इति भ्वादिवर्जनाद् दीर्घाभावः || ९५||
इति अर्थद्वयेन सूर्य वर्णयित्वा अथ चन्द्रमसं वर्णयति - तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यश्नखमण्डली । प्रत्यूहशलमप्लोपे दीमदीपाङ्करायते ॥ ९६ ॥
[ 'सिद्धये ! वर्धमा ! नस्तात् ! ताम्राऽऽयन्नै खमण्डली | “प्रत्यूहशलभप्लोपे दीमदीपाङ्कराय ते ॥ ९६ ॥
]
[१ सित्+हय+ई= सिद्धये ! संबोधनम् । २ ऊ +अर्ध+ मास् = वर्धमाः । संबोधनम् । ३ नस्+ क्विप्=नस् +ता+अत् = नस्तात् ! संबोधनम् । ४ ताम्र ! संबोधनम् । ५ इधातोः भौवादिकस्य ह्यस्तन्यां तृतीयपुरुषैकवचने 'आयत्' इति क्रियापदम् । न आयत् ? अपि तु आयत् एव इति भावार्थ: । ताम्र + आयत्+न= ताम्रायन्न । ६ प्रथमान्तम् । ७ प्रति+उ+उ+हस+ल = प्रत्यूहशल | ८ भ+प्लुष्+विच्+भप्लोट् । प्रत्यूहशल+भप्लोट् । अस्य चतुर्थ्या एकवचने प्रत्यूहशलभप्लोषे । चतुर्थ्येकवचनम् । १० ते तुभ्यम् - चतुर्थ्येकवचनम् । तुभ्यम् आयत्-आश्रिता इति अन्वयः । ]
९
Jain Education International
व्याख्या -- हे सिद्धये ! सितं श्वेतं कुर्वन्तीति णिजि क्विपि तयोर्लोपे सितः धावल्यकारकाः - सिता एवेति यावत् । हयाः अश्वाः तैः ईयसे गच्छसीति क्विपि सिद्धये तस्य सं० ‘अदेतः स्यमोर्लुक् " [ १ ।४।४४] इति लुकि सिद्धम् । तथा हे वर्धमाः ! ऊर्दीप्यमानः, अर्धो मा मासो यस्य स वर्धमाः, तस्य सं० । तथा हे नस्तात् ! ' णसि कौटिल्ये' [८५१] क्विपि भावे तलि नस्ता कौटिल्यं तद् अतसि आश्रयसीति विि नस्तात् तस्य सं । तथा हे ताम्र ! रक्त ! एतेनोदयकालो व्यज्यते-उदित्वर एव
For Private & Personal Use Only
www.jainelibrary.org