________________
284
Vasudevahirndi : Majjhima-khanda
आर्यपुत्र कुमारीस्तास्तते। वक्ष्यामि कारणम् । इत्युक्तः स तया राजा तत्र सवै: समं ययौ ॥ १७६ ददर्श च कुमारीस्ता: पुरःप्रज्वलितानलाः । विधायें ताश्च राजानं वायुवेगयशा जगौ ॥ १७७ एषैका कालिका नाम कालकूटपते: सुता । विद्युत्पुम्जा द्वितीयेयं विद्युत्पुम्जात्मसंभवा ॥ १७८ मन्दरस्य सुता राजस्तृतीयैषा मतङ्गिनी । चतुर्थीयं महादंष्ट्रसुता पद्मप्रभा प्रभे। ।। १७९ पञ्चम्यहं चेति वयं दृष्ट्वा त्वां मारमोहिताः। सिद्धक्षेत्र तपस्यन्त व्यदधम समय मिथः ॥ १८० समं पञ्चभिरस्माभिराहार्योऽय प्रियः पतिः । नात्मार्पणीयस्त्वेतस्मै क्याचिदपि भिन्नया ॥ १८१ एका चेत्पृथगेतेन विवाह विदधीत तत् । प्रविश्यो वहिरन्याभिरुद्दिश्यैतां सखी द्रुहम् ॥ १८२ एतत्समयभीताह नैच्छ परिणय पृथक् । न चात्मा तुभ्यमधुनाप्यार्यपुत्र समर्प्यते ॥ १८३ ममार्यपुत्र एवात्र लोकपालाश्च साक्षिणः । यद्येष समयोऽद्यापि स्वेच्छमुल्लवितो मया ॥ १८४ तदार्य पुत्र ता एता उपयच्छस्व मे सखीः। युग्माभिरेतोः सख्यो भावनीय च नान्यथा ॥ १८५ एवं तयोक्ते तुतुषुः समाश्लिष्यश्च ता मिथः । कुमार्यो मरणोत्तीर्णा राजाप्यन्तहर्ष सः॥ १८६ बुवा तत्पितरस्ते च तत्र तत्क्षणमाययुः । नरवाहनदत्ताय तस्मै प्रादुश्च ताः सुता: ॥ १८७ शासनं तेऽपि तत्कालं जामातु: प्रतिपेदिरे । कालकूटप्रतिप्रष्ठास्तस्य विद्याधरेश्वराः ॥ १८८ एवं पञ्च सम प्राप्य महाविद्याधरात्मजा: । नरवाहनदत्तोत्र माहात्म्य स पर ययो॥ १८९
यो देव चन्दनपादपः ॥ १९८ अस्यां भुन्यस्ति तं तावत्सायाभीष्टसिद्धये । नाचक्रवर्ती निकटं तरोः प्राप्नोति तस्य च ॥ १९९ श्रुलौतन्मन्दराद्रात्रौ निराहारो यतव्रतः । नरवाहनदत्तोऽगात्त चन्दनतरु प्रति ॥ २०. गच्छन्वित्रास्यमानोऽपि वीरो विध्नैः सुदारुणैः । न स तत्रास मूलं च प्राप तस्य महातरोः ॥ २०१ दृष्ट्वा च तं महारत्नं निबद्धोत्तुङ्गवेदिकम् । एत्याध्योरुह्य सौपानवर्वन्दे चन्दन द्रुमम् ॥ २०२ चक्रवर्तिन्नयमहं सिद्धस्ते चन्दनद्रुमः । स्मृतस्य संनिधास्ये ते तदिता व्रज सांप्रतम् ॥ २०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org