________________
स्वोपनटीकालंकृतं योगशतकम् । श्यवस्थारूपया 'जन्मादिदोषरहिता' जन्म-जरा-मरणवर्जिता भवति । का ? इत्याह-- 'सदेकान्तसिद्धिः' सती - अपुनरागमनेन एकान्तविशुद्भिर्मुक्तिः । इति गाथार्थः ॥ ९२ ॥ यदि तु योगसमातिर्न जायते ततो यद् भवति योगिनां तदाह
असमत्तीय उ चित्तेसु एत्थ ठाणेसु होइ उप्पाओ । तत्थ वि य तयणुबंधो तस्स तहऽभासओ चेव ॥९३॥
असमाप्तौ च पुनः तद्भवेन योगस्य । किम् ? इत्याह- 'चित्रेषु' नानाप्रकारेषु 'अत्र स्थानेषु' देवच्युतौ मानुष्ये विशिष्टकुलादिषु । किम् ? इत्याह'भवत्युत्पादः' जायते जन्मपरिग्रह इत्यर्थः । 'तत्रापि' जन्मपरिग्रहे, किम् ? इत्याह – 'तदनुबन्धः' योगधर्मानुबन्धः 'तस्य' योगिन इति । कुतः ? इत्याह- 10 'तथाऽभ्यासत एव' प्रणिधानतोऽविच्युत्यभ्यासत एव, प्रणिधान-[३४-प्र०]प्रवृत्तिविघ्नजयप्राप्तीनामित्थमेव भावात् । इति गाथार्थः ॥ ९३ ॥
अधिकृतवस्तुसमर्थनार्यवाह
जह खलु दिवसऽब्भत्थं रातीए सुविणयम्मि पेच्छंति ।
तह इहजम्मऽभत्थं सेवंति भवंतरे जीवा ॥९४॥
'यथा खलु' इति यथैव दिवसाभ्यस्तम्' अध्ययनादि 'रात्रौ' रजन्यां 'स्वप्ने' निद्रोपहतचित्तव्यापाररूपे पश्यन्ति तथानुभवापेक्षया । एष दृष्टान्तः । साम्प्रतं दार्टान्तिकयोजना -- 'तथा' तेन प्रकारेण 'इहजन्माभ्यस्तम्' अधिकृतजन्मासेवितं कुशलादि सेवन्ते 'भवान्तरे' जन्मान्तरे ‘जीवाः' प्राणिनः तत्स्वाभान्यात् । इति गाथार्थः ॥ ९४ ॥
पस्मादेवं तस्मात् किम् ? इत्याह
ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वटेज्जा । ___ इह-परलोगेसु दढं जीविय-मरणेसु य समाणो ॥१५॥
'तत्' तस्मात् 'शुद्धयोगमार्गोचिते' आगमाद् निरवद्ययोगमार्गानुरूपे 'स्थाने' संयमस्थाने सामायिकादौ अत्र वर्तेत साम्प्रतजन्मनि । कथम् ? इत्याह-- इह- 25 परलोकयोः दृढम्' अत्यर्थम् , तथा जीवित-मरणयोश्च 'समानः' सर्वत्र तुल्यवृत्तिः, परं मुक्तावस्थाबीजमेतत् । इति गाथार्थः ॥ ९५ ॥
न भावतः सदाऽनौचित्यवृत्तेः पर्यन्तौचित्यावाप्तिरिति तद्गतं विधिमाह
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International