________________
२७४ ]
ब्रह्मसिद्धान्तसमुच्चयः।
10
सिद्धिमाप्नोति विद्यां च दिवा पश्यति साधकः ॥२६६॥ जपस्त्र्यक्षरमप्येनां द्विस . . . . . . । सिद्धिमाप्नोति वाचा च विद्यातो लभते वरम् ॥२६॥ चतुरक्षरमप्येनां त्रिसप्ताहं जपन् बुधः । सिद्धिमाप्नोति साक्षाच्च विद्यातो लमते वरम् ॥२६८॥ जपन् पञ्चाक्षरं चैवं मासमात्रं जितेन्द्रियः । विष्णुसिद्धिमवाप्नोति महात्मा साधकः परम् ॥२६९॥ जपन् षडक्षरं चैवं मासत्रयमहर्निशम् । शिवसिद्धिमवाप्नोति शुभां वै साधकोत्तमः ॥२७०॥ पद्मासनं समाधिश्च विद्यायोगो वराभया । अञ्जलिश्चेति पञ्चात्र महामुद्रा यथाक्रमम् ॥२७१॥ नामा २१-द्वि०]दिभेदभिन्नाश्च एता ज्ञेया महात्मभिः । यथाभव्यं प्रयोगः स्यादासां सम्पूर्ण एव तु ॥२७२॥ सद्धारणाश्रयो ह्येष व्यवहारः सतां मतः । तदस्यैव वि(? व)शित्वेन सत्फलो नापरस्य तु ॥२७३।। श्रवणादेरपि ह्युक्तमद्वेपादेर्महर्षिभिः । भव्यत्वबीजाधानादि फलमात्रं तु तन्मतम् ॥२७४॥ तथापि श्रवणायस्य तदन्यस्यापि युक्तिमत् । प्रतिपत्तिक्रियातीतमिति तन्त्रार्थनीतितः ॥२७५॥ - अयं पुनर्महात्मा यदुक्तवद् क्षीणकिल्बिषः । तत् समग्रं करोत्येव शुभभावसमन्वयात् ॥२७६॥ अ . . . . . . . न विरुद्धोऽत्र वस्तुनि । आद्याधि. . . . यत् त्र्यद्धोऽयं परिकीर्तितः ॥२७७॥ यथाविभवमेवात्र. . . . . . . . । • • • • • • • • • • • • . . . . ॥२७८||
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org