________________
उच्छवासः] मदनरेखा-आख्यायिका मिदानी प्रसवेन, सोढव्य विषयसुखजनित प्रत्यक्षनरकदुःखफलमिति । धीरोचितधीरोचितसाह सायाः सहसा पूर्वस्या इव सहस्रकिरणस्तस्याः समजायत देवकुमाराकारः कुमारः । जाते च तस्मिंस्तदानीं तथाभवितव्यतयाऽस्ताचलचूलिकयव कैवलिते विवेकभास्करे समुल्लसिते महामोह तमः पटले पतिमरणोपलधावकाशेन लब्धावकाशं शोकनिशाचरेण कदर्थिता मदनरेखा प्रलपितुं प्रवृत्ता । तद्यथा---
तनयं वनदेवताः ! स्वयं युगबाहोः किमिमं न पश्यथ ? । नेनु गच्छत तस्य सन्निधावभिधायाऽऽप्नुत पारितोषिकम् ॥२६३॥ यदि सन्निहितो भवेदसौ यदि दास्योऽपि मम प्रियंवदाः । किमरण्यमिदं न धारयेदधिकां राजकुलादपि श्रियम् ॥२६४॥ युवराज ! विलोकयात्मजं नयने पायय पाययामृतम् । परिभावय चेतसा स्वयं सुरलोकेऽपि सुतोत्सवोऽस्ति किम् ।।२६५॥ तनयोत्सर्वमेत्य कारय त्रिदशरथानमितोऽसि यद्यपि । ननु पुत्रमुखाम्बुजश्रियाः पुरतः सापि सुधा वराकिका ॥२६६॥ तनये गर्भगतेऽपि यः पुरा परमं कारितवान् महोत्सवम् । अनुरज्य स नन्दनेऽपरे न च तं जातमपीक्षसेऽधुना ॥२६७॥ . . यदि सम्प्रति विस्मृताऽस्म्यहं ननु बालकोऽपि किमेष विस्मृतः । त्वममुष्य मुखं निरीक्षितुं यदभूरुत्सुकमानसो नहि ? ॥२६८॥ जगतोऽप्यभयं ददौ पिता भवतो दोहदतोऽपि बालक ! । भवता तु न सोऽपि रक्षितस्तत् किं वत्स ! वदामि साम्प्रतम् ॥२६९।। इति दुःसहशोकपीडितां प्रलपन्ती युगबाहुवल्लभाम् । अवलोक्य निशा सतारका विलय प्राप शुचेव लज्जया ॥२७॥ पुनरुदयमुपागते विवेके प्रशमवशेन शुचामबुध्यतेषा।
उदयति सहसा सहस्ररश्मौ क्षयसमयेन निशां सरोजिनीव ॥२७१॥ १. [नवरं धीरस्योचितं धिया-बुद्धया रोचित-शोभितम् ।। धीराणाम् उचितं तथा धिया रोचितं साहसं यस्याः । २. स्थानम् इतोऽसि-गतोऽसि-प्राप्तोऽसि ।
३. अभूः त्वम्-अभूः । त्वम् उत्सुकमानसो नहि अभूः ? । - ४. शुचा इव-शोकेन इव ।
1 विषयसुरतज' डे। 2 नरकफल खल। 3 साहसया स ख। 4 कलिते खल। 5 न तु गच्छत त ख। 6 वमेव का खल। 7 से बुधैः डे। 8 रक्षत खल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org