________________
२१८
भट्टश्रीचक्रधरप्रणीतः [का०पृ०९१, वि०पृ०५२३ अध्यात्मविदश्चेति । यथोक्तं प्राक् श्रौतस्मार्तकर्मानुष्ठानात् कषायपरिपाकद्वारेणोत्पन्नातिशयस्य आत्मज्ञानेऽधिकारात् । “तमेव वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च"' इत्यादिविधिभिश्च कर्मणामात्मज्ञानसहकारित्वेन विनियोगात् । यथा प्रतिपादितम्---"महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः" इति । [ मनुस्मृति, २. ३८ ]
आत्मसंस्कारपूर्वमिति । आत्मसंस्कारस्य के(कै)वल्यप्राप्तियोग्यतायाः कारणम् । इतिकर्तव्यताफलोपदेशश्चेति । उपासनादिक(क)मप्रतिपादकवाक्यविशेषाः ।
महतो वंशस्तम्बादिति । वंशस्तम्बं महान्तम्, तं छित्त्वा मध्याद् बालक्रीडनकस्य लट्वाभिधानस्य निष्कर्षणं यद्वदिति ।
वीहीन् प्रोक्षतीति व्रीहीणां पुरोडाशसाधनत्वाद् भाव्युपयोगित्वं संस्कारवि[36]धित्वमेव जहाति ।
सक्तून् जुहोतीतिवदिति । अत्र सक्तूनां भूतभाव्युपयोगाभावेनानपेक्षणात् संस्कार्यत्वाभावम् । न च प्रयाजादीनामिवेतिकर्तव्यताया [आपेक्षणम् , होमसंस्कृतानामक्रियारूपत्वेनेतिकर्तव्यतात्वाभावात् सक्तूनाम् , होमस्य तु क्रियारूपत्वादितिकर्तव्यतात्वेनान्वयो युक्तस्य(क्तः स) च द्रव्यापेक्षित्वात् तादर्थ्यमेव सक्तूनामिति । अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य तत्संस्कार्यस्य प्रयोजनवत्त्वेनैव तदर्थानुष्ठानसिद्धेः ।
__ मृत्तिके[त्येव सत्यमिति । "वाचारम्भणं नामधेयं विकारो मृत्तिके त्ये]व सत्यम्" इति [छान्दो० उप०, ६. १. ४.] । नामधेयं घट इति, विकारश्च पृथुबुध्नोदरत्वादिसन्निवेशविशेषः, वाचारम्भणं वागिन्द्रियस्य शब्दोच्चारणे प्रवर्तकम् , वस्तुतस्तु न किञ्चिद् मृत्तिकैव परमार्थ इति । वाचेति षष्ठ्यर्थे तृतीया । आरम्भणम् आलम्बनम् ।
१ तुलना-'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति, यज्ञेन, दानेन, तपसाऽनाशकेन...' बृहदा उप०४.४. २२। २ तस्माद् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् । ब्रसू०शां०भा०३.४.३५। तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः । बसू शां०भा० ४.१.१६ । ३ तस्मात् किमपि वक्तव्यम् यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति। उच्यते--नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च । ब्रसू०शां०भा०१.१.१। ४ भूतभाव्युपयोग हि संस्कार्य द्रव्यमिष्यते। सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ॥ यस्य हि द्रव्यस्य क्वचिदुपयोगो निवृत्तो भविष्यतीति वाऽवधार्यते तत्संस्काराहत्वात् कर्म प्रति प्राधान्यं प्रतिपद्यते । यत् पुनर्नोपयुक्त नोपयोक्ष्यते वा तस्य संस्कारो निष्प्रयोजन इति तद्विधानवाक्यानर्थक्यप्रसङ्गः । ते चामी सक्तवो न होमात् प्रागुपयुज्यन्ते नोवं, भस्मसाद्भावाद् भस्मविनियोगवचनाभावाच्च । तन्त्रवा० २.१.४.१२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org