________________
॥ नवमम् आह्निकम् ॥ ऊर्मिषट्कातिगमिति । अशनाया-पिपासा-शोक-मोह-जरा-मृत्युरूप ऊर्मिषट्कः, तमतिक्रमेण स्थितम् । ईश्वराव्याकृत-प्राण-विराट्-भूतेन्द्रियाख्या ऊर्मयः । परस्य ब्रह्मणो ज्ञानक्रियायोगेन सिसृक्षोः स्थितिरीश्वराख्योर्मिः । तस्यैव सत्त्व-रजस्तमोरूपतया यदवस्थानं तदव्याकृतत्वम् । तदेव प्राणरूपेण बोधनाद् बुद्धिः प्राणाख्योर्मिः । तस्यैवाहमित्यवमर्शोऽहङ्कारो ‘विराट्'शब्दवाच्यः । तस्यैव स्थूलरूपपृथिव्यात्मना स्थितिर्भूताख्योभिः । [29] इन्द्रियाणि बुद्धि-कर्मविभागेनैकादशम् तद्रूपेणावस्थानमिन्द्रियाख्योर्मिः ।
सोपाधिसावधिकेति । अप्सरःप्रभृतिपदार्थदर्शनोपभोगाद्युपाधिजन्यः । कर्मक्षयपर्यन्तत्वाच्च सावधिः' ।
विभुत्वेनेव नित्येन सुखेनावियुत आत्मेति । अनेन श्रौतावानन्दब्रह्मशब्दो व्याख्यातौ।
विज्ञानम् , विज्ञानस्वभावं नित्यविज्ञानात्मकमित्यर्थः ।
प्रतीकारो व्याधेरिति । व्याधेः ज्वरादिजनितस्य दुःखस्य निवर्त्तकम् शाल्यादि । मुखै सुखजनकमिति विपर्यस्यति, दुःखनिवृत्तिजनकं हि तत् ।
___कौ(कु)रुकुचीकूर्चकौशलमिति । कौ(कु)रुकुची दम्भः, लोकपक्त्य(कवञ्चनार्थ दीर्घश्मश्रुधारणं कूर्चशब्देन सूचितम् । अनिवृत्तेऽपि दुःख इति । यथाऽऽसीद हृदावनियम(निनिम)ग्नकायस्य युगपदुभयानुभवः । अभिलाषात्मकदुःखाभाव इति । यद्विषयोऽभिलाषो जायते तस्याप्राप्त्या यावदभिलाषो न निवर्तते तावद् दुःखित इव पुरुषो भवति ।
ननु जाग्रत्-स्वप्नयोर्मेंदग्रहणात्मकाविद्यावशाद् आत्मस्वरूपस्य विज्ञानादेर्मा भूत् प्रकाशः; सुषुप्तावस्थायां वाऽभेदाग्रहरूपाऽविद्या समर्थमाना, मा स्तु तत्तत्त्वावगमः; चतुर्थी तुर्यावस्था यस्याम् उभयरूपाविद्याविलयः तत्र यथावस्थितात्मतत्त्वाक्गतिर्भविष्यतीत्याशङ्क्याह-जाग्रतः स्वप्नवृत्तेर्वा इति । ननु यत्र सुप्तो न
१ क्षीणे पुण्ये मर्त्यलोकं विशन्ति । गीता ९.२१ । २-३ भर्तृहरिकृतवैराग्यशतके। ४ द्र० पृ०१९६ टि०५। ननु जागरस्वप्नयोर्ज्ञानज्ञेयमयत्वेन सुषुप्ततुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वयमेव तत्कथं पदचतुष्टयम् इति ? अत्र उच्यते .. . सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं मोहवशादहमित्युपलब्धृचमत्कारविरहात् असदिवाभाति; तस्यैव तु तत्त्वस्य परमार्थसत्तया आत्मत्वेनोपलब्धित्तुर्यपदे इत्ययं सुषुप्ततुर्ययोर्भेदः । स्प०का विवृति २. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org