________________
का पृ०१७, वि०पू०४४५] न्यायमञ्जरीप्रन्थिभगः
'वर्षातपाभ्यां किं व्योम्नः। नैव ताभ्यां व्योम्नः किञ्चित् कर्तुं शक्यत इत्यर्थः । उत्सृज्यतामेष इति । यदुक्तम्
सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । साऽविद्या तत्र [8] तत्स्नेहस्तस्माद् दो(द्वेषादिसम्भवः ।। [प्रमाणवा० ३.२२२] आत्माऽऽत्मीय-ध्रुवोच्छेद-नास्ति होनोच्चदृष्टयः । अहेत्वमार्ग-तदृष्टिरेता हि पञ्च दृष्टयः ॥ [अभिध० को०, ५.७]
इत्यादि । अहङ्कार-ममकारग्रन्थिपहाणेति । अहङ्कार-ममकाराविव दुर्मोचत्वाद् ग्रन्थी।
न भूमिरनुमानस्येति, यत्र धूमस्तत्राग्निरिति तदविनाभावात्मके विकल्पे नियता प्रतिबद्धा स्थितिर्यस्य ।
तच्च स्वग्राहकाद् बोधादिति । य एव पदार्थस्य ग्राहको बोधः स एव तत्सत्त्वनिश्चायकः । प्रमाणं जगदुः स्वतः इति । यदाहुः
विषयाकारभेदाच्च धियोऽधिगमभेदतः । भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥ [ प्रमाणवा० १. ६]
विशेषांशे संशेरतां नाम जनाः, न पुनः सत्त्वे संशेरते, असतो ज्ञानजनकत्वाभावात् । संशयविपर्यययोस्तत्राप्यभावादिति । यथा वृक्षत्वस्य व्यापकस्यानुपलम्भाद् व्याप्यस्य शिशपात्वस्याभावे न संदेहस्तथा क्रम-योगपद्यलक्षणस्य व्यापकस्याक्षणिकेऽनुपलम्भात् तद्व्याप्तस्य सत्त्वस्याभावो निःसंदेहः, अतः सत्त्वं तेभ्यो निवर्तमानं क्षणिकेश्वेवावतिष्ठत इति व्यापकानुपल भेन सत्त्वक्षणिकत्वयोर्व्याप्तिग्रहः ।
परस्परव्यवच्छेदव्यवस्थितात्मनां तृतीयप्रकारानुपपत्तेरिति, यथा नित्यानित्यादयः सदसदादयश्च परस्परपरिहारव्यवस्थितात्मानस्तथा क्रमोऽयक्रमव्यवच्छेदेनैव व्यवस्थितः । क्रमव्यवस्थापकेन प्रमाणेन ततोऽन्योऽक्रमत्वेन व्यवस्थाप्यते । अक्रमश्च यौगपद्यम् । सोऽपि प्रमाणादवगम्यमानः क्रमव्यवच्छेदेनैव गम्यते नीलमिवानीलव्यव
१ कारिकेयमुद्धता न्यायवार्तिके पृ. ७२१ । २ ० न्यायकणि पृ० १३० । न्यायका. तात्प० पृ. ५५४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org