________________
का०प्र०१० वि०पृ०४३०]
न्यायमन्जरीप्रन्थिभतः
तस्य तस्माद् [4] व्यावृत्तिरिति । यदिदं शरीरादिषु बाकोपपत्तिविशिष्टं कार्यत्वं तत् किं घटादौ शरीरादिविलक्षणाश्रितत्वस्य साध्यस्याभावाद नास्त्युत कारणान्तरत इति । अन्वये पुनः प्रदर्शित एवं वक्तुं न शक्यते । अन्यत्र साध्यान्विततयो - पलम्भादिह साध्याभावादेव तस्याभाव इति हि तदा वक्तुं शक्यत एव ।
तत्रात्मसंज्ञा आगमिकी न पुनः प्रमाणादिसंज्ञावद यौगिकी |
ते अपि तथैव द्रष्टव्ये पूर्वानुसन्धानं विना प्रयत्नाभावः, प्रयत्नाभावाच्च तयोरप्यभाव इति । तदुत्पत्तावपि सर्वः पूर्वोक्तः क्रमः ।
न दोषाय कथास्विव । यथा वादादिकथासु दोषाय ।
किन्तु स्वसन्तान एवेति । एकशरीरावच्छिन्ने क्वचिद वस्तुनि । सन्तानान्तरेषु प्रतिसन्धानस्यादृष्टत्वात् । प्रमातृनियमस्य ' ये केचिदत्र न प्रमातारोऽपि तु नियम एव कश्चित्' इत्येवंरूपस्य । सेयमुभयतः पाशा [ रज्जुरिति ] | यथोभयतः पाशार [ज्जा ] वेकदिशा योजने [प]रदिशा विघटनम् तद्वदिदम् । यद्यात्मा न प्रत्यक्ष इत्यभ्युपगम्यते तदा व्याप्तेरघटनम्, व्याप्तिघटने व्वात्मप्रत्यक्षसिद्धिरिति । स एव क्षणिकैरन्वय इति । न हि सत्त्व- क्षणिकत्वयोः क्वचिद् धर्मिणि सिद्धेरन्वयग्रहणं सम्भवति, सर्वस्य क्षणिकत्वेन साध्यत्वात्, अतः अक्षणिकेभ्यो व्यावृत्तिरेव क्षणिकैरन्वयः सत्त्वस्य । क्षणिकाक्षणिकाद राश्यन्तरस्याभावाद् अक्षणिकेभ्यो व्यावृत्तं सत्त्वं क्वान्यत्र यात् क्षणिकान् वेति ।
व्यतिरेकमुखेनापि इति । यत्रैककर्तृकत्वं नास्ति [5] तत्र प्रतिसन्धानादि नास्तीति व्यतिरेकासिद्धिः । ज्ञानक्षणेषु भिन्नेष्वपि प्रमातृषु प्रतिसन्धानस्य बौद्धदृष्ट्या सम्भाव्यमानत्वादिति' ।
१८५
भेदाग्रहणादेव च व्याप्तिसिद्धेरिति । यावदेव भेदान् अगृहीतस्तावदेव प्रतिसन्धानादेरभिन्नकर्तृकत्वेनान्वयो गृहीत इति ।
मदशक्तिवद् विज्ञानमिति । यथा कि [वा ]दिद्रव्यपरिणामादेव मदशक्तिरुदेति तदवद् भूतपरिणामविशेषा चैतन्यमिति ।
१... . यतः क्षणिकेष्वपि भावेषु भ्रान्तादेककर्तृत्वाभिमानतः प्रतिसन्धानसम्भवात् । तत्त्वसं०० पृ० ८५ । २ मुद्रितमञ्जर्या तु 'भेदाग्रहवदेव' इति पाठः । ३ तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि । तेभ्य एव देहाकार परिणतेभ्यः -- किण्वादिभ्यः मदशक्तिवत् — चैतन्यमुपजायते । सर्वदर्शनसं० पृ०२-३ ।
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org