________________
१७३
का पृ०३८२, वि०पृ०४१५] न्यायमञ्जरीग्रन्थिभङ्गः नास्त्यपशब्दानाम्" इत्यस्योत्तरमर्धम् -- "तथोभाभ्यादिरूपाणां हस्तिशिक्षादिकारिणाम्" [तन्त्रवा० १. ३. ८.२४] इति । हस्तिशिक्षा[174A]कारिणो हि पालकाप्यादयः उभाभ्यां दन्ताभ्यां यः प्रहारस्तमुभाभ्यशब्देन व्यवहरन्ति, न च तस्य लक्षणेन सिद्धिरस्ति । 'सामान्यविशेषवता लक्षणेनोत्सर्गापवादरूपेण लक्षणेन शास्त्रेण । कथं ? प्रकृत्यादिविभागकल्पनयेति । असतामपि प्रकृतिप्रत्ययादीनां या विभागकल्पना 'अयं प्रकृतिविभागः अयं प्रत्ययः' इति बुद्धया समुल्लेखनतया । 'प्रकृत्यादिविभागकल्पनया' इत्यत्र यद् वक्तव्यमिति । प्रकृत्यादीनां पारमार्थिकत्वात् काल्पनिकत्वाभावात् ।
तथा च गण्डतीत्यपि प्राप्नोतीति । गण्डशब्दसिद्धयर्थं तस्य प्राङ्नीत्या 'गण्डति' इति स्वमतिकल्पितं रूपं साधु प्रसज्येतेति गण्डतीत्येवमादीनामपि साधुत्वं प्राप्नोति । 'घटं भूयत इति च' इति प्राभाकरी टीका साधुशब्दाधिकरणे तत्र घटभूयत [इति] फक्किका व्याख्यातुमाह--"घट चेष्टायाम्" इत्यादिना । घटश्च अम् च भूश्च यश्च तश्चः घटंभूयत् । तस्माद् घटंभूयतोऽपि प्राप्नोति प्रातिपदिकेभ्योऽपि घटादिभ्यः प्रत्ययास्तिङादयः प्राप्नुवन्तीत्यर्थः । अत्र च 'धटम्' इति 'अमः' द्वितीयैकवचनानुकरणत्वात् प्रकृति[ 174B]प्रत्ययाः । कालाधुपचय(पाधयः) इति । लिट्तोद्व(लिङ्लोड्न)र्जिताः कालोपाधयः यदा धात्वर्थः कालविशिष्टो भवति तदा तथाविधे धात्वर्थे वर्तमानाद् धातोस्ते विधीयन्ते न पुनस्तैरसौ कालः प्रतिपाद्यत इत्यर्थः । अनुक्तेषु कालादिष्विति । अयमर्थः-प्रत्ययस्तावत् कालवचनो नाङ्गीकृतः, धातोश्च क्रियामात्रावगतिः, तद्भतादेः कालस्यानवगमादयं नियमो “वर्तमान एव लट्' [पा० ३.२.१२३]इत्यादिको निरूपयितुं व्यवस्थापयितुं न शक्यते । तदर्थावगतिपूर्वकत्वादस्येत्यर्थः । उच्यतां तर्हि कालादय इति । वृत्तिकृन्मतमाशङ्क्याह-न, भाष्यविरोधादिति । अथास्तु क्रियावद् धातुवाच्यत्वमेव भाष्यविरोधाद् भूतादीनाम् । तदपि च कुतः ? भाष्यविरोधादेव । तदायुभयोः धात्वर्थत्वम्, न चैकस्यैव विशेषणविशेष्यभावः उपपद्यते । तदाह --न च धात्वर्थेनैव धात्वर्थ इति । यदि हि प्रत्ययेन भूतादिर्न प्रतिपाद्यतेऽपि तु धातुनैवेति मतं तदानी क्रियावत् कालोऽपि धात्वर्थः प्राप्नोति, न च स एव धातुवाच्यः कश्चित् क्रियारूपो व्यवस्थाप्यो विशेष्यः कश्चिच्च व्यवस्थापको विशे[1 75A]षणं(ण)कालः; एकशब्दवाच्यस्य द्वैरूप्यादर्शनात् । दण्ड्यादौ हि दण्डशब्देन विशेषणं दण्डः प्रतिपादितः इना तु विशेष्यः पुरुषो
१-२ काशिका० पृ०१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org