________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०३४०, वि०पृ०३७० शनाद् वर्णा एव नेत्याह-तैश्च मरुद्भिरिति । नानाकारगकारादिभागयोगीवेति । कथमिति चेत् तदाह—ताल्वादिस्थानकरणेति । वायूनां यो विशिष्टैः स्थानकरणैः संयोगः स एवोपाधिस्तथाविधोपप्लुतरूपप्रदर्शकः । नादात्मकोऽपीति । नादात्मकः अवाचकः ।
___औपाधिकत्वं च सामान्यावयविबुद्धेरपीति । अत्र यद्येकार्थप्रतीतिजनकत्वादेकत्वमुच्यते तदा दाहदोहाघेकार्थ। 157B]कारितोपाधिनिबन्धनः सामान्यप्रत्ययोऽपीति अतिप्रसङ्गः ।
अर्थान्तरमेव ग्रामराग इति । ग्रामरागो यत्रांशतया षड्जादयः स्वराः स्थिताः ।
करितुरगादिवदिति । यथा सत्सु करितुरगादिषु गच्छत्सु रेणुपटलस्योद्गमदर्शनात् तत्कारणता कल्प्यत एवं पिपीलिकापङ्क्तिरपि कदाचिद् रेणुपटलोद्गमपूर्वभाविनी दृश्यत इति तस्या अपि तत्कारणत्वप्रसङ्गः । अश्वकर्णादिवदिति । अश्वकर्णाख्या ओषधिर्न तत्राश्वार्थः कश्चिन्नापि कर्णार्थ इति ।।
प्रत्ययादेशेति । प्रत्ययविसंवादः कचिल्लकारः प्रत्ययः, अन्यत्र त्या(त्या ?)दय इत्येवमन्यत्रापि । __ वाक्यात(र्थ ? )कल्पनयैवेति । कल्पनया असतामप्यनपोद्धारे वाक्यार्थस्य प्रतिपादयितुमशक्यत्वादसतामपि तेषां कल्पनयोद्धृतानां रेखागवयादीनामिव सत्यार्थप्रतिपादकत्वम् । अपोद्धृत्यैव वाक्येभ्य इत्यस्य पूर्वमर्धम्–“पदं कैश्चिद् द्विधा भिन्न चतुर्धा पञ्चधापि वा ।" इति वाक्यप० ३.१.१] ॥
अथ प्रथमप्रतिपन्नेति । प्रकरणादिवशेन 'काले नदन्ति नागाः' इत्यस्मादुच्चारिताद् विशिष्टार्थप्रतिपत्तिर्भवत्येव, भो[158A]जनादिप्रस्तावे सैन्धवमानयेति प्रतिप्रत्तिवत् ।
अनाद्यविद्यावासनेति । अविद्यावशाद्धि वर्णपदावान्तरवाक्यमहावाक्यप्रविभाग इत्यनेन चैतदुक्तं भवति – एकमेवेदं त्रयीरूपं शब्दब्रह्म परब्रह्मप्राप्त्युपायः, तस्य यदिदं विभागेन चातुराश्रम्यप्रतिपादनं तदसत्यं, मातृमोदकन्यायेन हि तत्तद्वस्तूदेशेन समीहावतां प्राणिनां बाह्योपायनिषेधेन पश्वर्थिनामिव चित्रादि दर्शयद् बाह्यक्षोभनिवर्तनेन शनैः शनैः शान्ततां दर्शयत् परं क्षेमं दर्शयतीति । तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org