________________
१३९
का०पृ०२९७, वि०पृ०३२५] न्यायमञ्जरीग्रन्थिभङ्गः
न च युष्माभिरिष्यते 'समवायिनः श्वैत्यात्' [वैशेषिकसू०८.९] इत्यादि वदद्भिरिति । एवं न व्यक्तेरपि वाच्यता व्यक्तिरपि वा....पेक्षया शब्दस्य।
शब्दः संकोचनीयः। बहुविषयः [अ]ल्पविषयः कार्यः ।
तद्वद्वाच्यत्वपक्षसाक्षीणीति । यस्य गुणस्य भावात् स गुणो यत्र तादृशस्य द्रव्यस्याभिधाने शब्दप्रयोग इत्युक्त तद्वति शब्दप्रयोग इत्युक्तं भवति । 'तद्वतो नास्वतन्त्रत्वात्' इत्यादिना...कर्णगोपृ०२००। यथा किल सामान्यमभिधाय तद्वति वर्तमानः शब्दोऽस्वतन्त्रः स्यात् ततश्च शब्दप्रवृत्तिनिमित्तभूतेन सामान्येन वशीकृतस्य शब्दस्य व्यक्तिगतपरस्परमेदानाक्षेपात् तैः समानाधिकरण्यं न स्यात् । उपचरिता च तद्वति शन्दप्रवृ. त्तिरित्यादिको दोष इति । कर्णगो०पू०१३५ तद्वत्पक्षो हि जातिमभिधाय शब्दस्तद्वति वर्तत इति तद्वचने स्वातन्त्र्यमस्य न स्यात् सामानाधिकरण्यं च न भवेत् 'गौः शुक्लः' इति जातेरशुक्लत्वात् । न चोपचाराश्रयणेन स्वातन्त्र्यं सामानाधिकरण्यं चास्खलद्गतियुक्तमिति...दोषः एषः । मनोरथन०३.६३ । जातिमदभिधानेऽपि तद्वतो नाऽस्वतन्त्रत्वात्' इत्यादिना सामानाधिकरण्याऽनुपपत्तिभिक्षुणा दर्शिता... । प्रलो०वान्यायरत्ना० पृ०५८९ (चौखम्बा)। न च व्यावृत्तिमद् वस्तु शब्दवाच्यम् - यतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोहवति वस्तुनि वृत्तः सामानाधिकरण्यं भवेत्-परतन्त्रत्वाद् नीलादिशब्दस्येतरमेदानाक्षेपकत्वात्। स हि व्यावृत्त्युपसर्जन तद्वन्तमर्थमाह न साक्षात् ततश्च साक्षादनभिधानात् तद्गतमेदाक्षेपो न सम्भवति, यथामधुरशब्देन शुक्लादेः । यद्यपि शुक्लादीनां मधुरादिमेदत्वमस्ति तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपे सामर्थ्यम् न तु पारतन्त्र्येणाभिहितार्थगतस्य; ततश्च नीलादिशन्देन तद्गतमेदानाक्षेपात् उत्पलादीनामतभेदत्वं स्यात्; अतभेदत्वे च न सामानाधिकरण्यम् ; तेन जातिमन्मात्रपक्षे यो दोषः प्रतिपादितो भवता 'तद्वतो न वाचकः शब्दः भस्वतन्त्रत्वात्' इति स ब्यावृत्तिमन्मात्रपक्षेऽपि तुल्यः । तथाहि-जातिमन्मात्रे शब्दार्थे सच्छब्दो जातिस्वरूपोपसर्जन द्रव्यमाह न साक्षादिति तद्गतघटादिभेदानाक्षेपात् अतभेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः ....। सन्मति०टीका०पृ०१९७। जातिमन्मात्राभिधायकोऽपि सच्छब्दो न भवति । कस्मात् ? भस्वतन्त्रत्वात् । न हि सच्छब्दात् तदुमेदा .घटादयो गम्यन्त इति तद्वद्धटादिभेदानाक्षेपात् सामानाधिकरण्याभावः । अथवा भस्वतन्त्रत्वादिति सच्छब्दः प्राधान्येन सत्तायां वर्तते। तत्र वर्तमानस्तद्वति उपचर्यते । यच्च यत्र वर्तमानमन्यत्रोपचर्यते न तत् तस्याभिधायक मञ्चशब्दवदिति । उक्तं चात्र । किमुक्तम् ? तद्वतामानन्त्यात् न सच्छब्देनाभिधानमुक्तम् इति । तद्वति च न गुणसारूप्यात् प्रत्ययसक्रान्तिः-यथा स्वामिशब्दस्य भृत्ये, न गुणोपरागात्-यथा नीलः स्फटिक इति, क्रमवृत्त्यभावात् युगपदसम्भवाच्च । अयथार्थज्ञानोत्पत्तिप्रसङ्गाच्च । तस्मान्न जातिमन्मात्राभिधायकोऽपि । न्यायवार्तिक पृ०३२०-३२१ । तद्वतो नास्वतन्त्रत्वात् । तथा चसच्छब्दो जातिस्वरूपमात्रोपसर्जन द्रव्यमाह, न साक्षात् । दुगत घटादिमेदानामनाक्षिप्तत्वादतर्द्रदत्वे सामानाधिकरण्याभावः। न ह्यसत्यां व्याप्ती सामानाधिकरण्यम् । यथा शुक्लशब्देन स्वाभिधेयगुणमात्रविशिष्ट द्रव्यमभिधीयते, द्रव्ये सन्तोऽपि मधुरादयो नाक्षिप्यन्ते, तस्मादतमेदत्वम् । एवमत्रापि प्रसज्यते। अन्यच्च-उपचारात् । सच्छन्दोऽपि भूतार्थेन स्वरूपं जाति वाह। तत्र प्रवृत्तः द्वति उपचर्यते । न हि यो यत्रोपचर्यते स तमर्थ भूतार्थेनाह । सारूप्यस्यापि असम्भवात् प्रत्ययसक्रान्ति-गुणोपकाराभ्याम् । प्रमाणसमु टीका (भोटभाषातोऽनूदिता)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org