________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२५०, वि० पृ०२७३
कर्मकर्तृसाधनवैगुण्यादिति । इष्टया पितरौ संप्रयुज्यमानौ पुत्रं जनयत इति । इष्टः करणं साधनम्, कर्तृलक्षणं पितरः, तत्सम्प्रयोगः कर्म, त्रयाणामपि गुणसंयोगात् पुत्रजन्म, वैगुण्याद् विपर्ययः । इष्टयाश्रयं तावत् कर्मवैगुण्यं समीहाभ्रेषः; कर्तृवैगुण्यम् अविद्वान् प्रयोक्ता कपूयाचरणं वा; साधनवैगुण्यं हविर्न संस्कृतमुपहृतमिति, मन्त्रा न्यूनाधिकाः स्वरवर्णहीना इ[106 A]ति, दक्षिणा दुरागता हीना निन्दिता वेति । उपजनाश्रयं कर्मवैगुण्यं मि[थ्यासम्प्रयोगः ], कर्तृवैगुण्यं योनिव्यापादो बीजोपघातश्च; साधनवैगुण्यमिष्टयामभिहितम्, कपूयाचरणः कुत्सिताचारः, मिथ्यासम्प्रयोगः पुरुषायितत्वादिना सम्प्रयोगः ।
११६
भूतस्वभाववाद श्वेति । शरीरारम्भकाणि यानि भूतानि तेषामीहक् कश्चित् स्वभावविशेषो यत् कानिचिदेव पश्वादिभिः सम्बध्यन्ते कानिचिन्नेति ।
तच्चैव हि कारणम् इति । शाबरं भाष्यम् " यच्च कालान्तरे फलस्यान्यत् प्रत्यक्षं कारणमस्तीति । नैष दोषः " इति [ शाबरभा० १. १. ५ ] अतः परं स्थितम् । यद्यपि प्रत्यक्षतः सेवादीनां कारणत्वमवगम्यते तथापि शब्दात् चित्रया यजेत पशुकाम:' [तै० सं० २.४.६.१] इत्यादेश्चित्रादीनामपि कारणत्वावगमः; यथा प्रत्यक्षं प्रमाणं तथा शब्दोऽपीत्यर्थः । कर्मादिवैगुण्यग्रहणमिति । यथा कर्मादिवैगुण्यात् फलं न भवत्येवं तीव्रप्राग्भाविकर्मान्तरप्रतिबन्धादपीति । ननु कथमेवंप्रायाः कल्पनाः स्थाप्यन्ते, किमाभिरित्याशङ्क्याह-न तु वेदस्याप्रामाण्यकल्पनेति । साद्गुण्ये कर्मण इति । अरणिनिर्मथनसाद्गु [106B]ण्येन कृतादग्न्युत्पत्तिदर्शनादन्यथा चादर्शनादिति ।
नाविशेषप्रवर्तिनीमिति । 'चित्रया पशुकामो यजेत' [ तै०सं० २.४. ६.१] चित्रातः पशवो भवन्तीत्येतावत्येवाविशेषेण चोदनैषा स्थिता, न पुनरनन्तरं भवन्तीति विशेषेऽपीत्यर्थः ।
वार्ताविद्यायां । कृषिः पाशुपाल्यं वाणिज्या ( ज्यं) च वार्ता | मृद्नतो मर्दनकर्तुः ।
एवं वीर्यकामादिष्विति । उत्तरश्लोकार्थापेक्षया । तदुक्त[म् ] 'राज्ञो बलार्थिनः षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे' [ मनुस्मृति २. ३७] इति ।
कर्त्रा दिवैगुण्येति । कर्त्रादिवैगुण्यं फलादर्शने कारणमननुमोदमानाः । १. न्या०सू० २.१.५६ । ६० २ श्लो०वा० चित्राक्षेपपरिहार, ४ |
Jain Education International
For Private & Personal Use Only
#
www.jainelibrary.org