________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२४२, वि० पृ०२६४
नाशङ्कितसिद्धिमपेक्षते ।' [ ] एवं परोते कारणाभावनिश्चये निरस्ते निष्प्रतिपक्षावगतिः प्रमाणम् । न च कारणसद्भावनिश्चयाभावात् कारणाभावोऽपि सम्भवतीति सम्भवमात्रेणानुभवविरुद्ध कारणाभावः शक्यते वक्तुं यथा उक्तम्- 'दोषज्ञाने त्वनुत्पन्ने' इति । अन्येनाप्युक्तम्- 'बाधके सति स न्यायः, नानुभूतं त्यक्तव्यम्' [ ] । लिङ्गे पुनर्नियम निश्चयापेक्षावगतिरिति नायं नयः समस्ति । अत एव प्राङ्नयेन वेदमूलत्वनिश्चयाभावाद भाष्यकृता "सम्भवाद् वेदसंयोगस्य " इत्ययुक्तम्, अन्यथा निश्चयो वक्तव्यः, न सम्भवमात्रम् । अत एव न वाच्यं 'वेदसंयोग एव वेदमूलत्वे प्रमाणं भविष्यति' इति, अनिश्चये प्रमाणत्वासिद्धेः । अत्र शास्त्रे स्मृत्यधिकरणे प्रभाकरटीका सर्वत्रोपयुज्यते ग्रन्थगौरवभयात् तु न प्रदर्शिता । तदेवं यथा स्मृत्यादिवाक्येभ्योऽवगते रुत्पद्यमानाया [100B] मूलकारणाभावेन परैर्मिध्यारूपता शङ्किता सा त्रैवर्णिकानां वेदसम्बन्धस्य सम्भवमात्रेण कारणाभावनिश्वयनिराकरणेन निरस्ता । भवन्ति हि मन्वादयस्त्रैवर्णिकत्वाद् वेदेऽधिकृताः, अस्ति तेषां वेदेन सम्बन्धः, तत्कदाचिद् वेद एव मूलकारणं सम्भवतीति, एवं चेत् कथमेकान्तेन कारणाभावनिश्चय इति, तथा शैवादिशास्त्रेभ्योऽप्यवगते रुत्पद्यमानाया अयमेव न्यायः, तत्कर्तॄणामपि वेदसंयोगः केनापहूनूयते । अतस्तत्रापि मूलकारणाभावनिश्चयः सम्भवमात्रेण निरसनीय एव । तथा च पञ्चरात्रादौ भगवत्सङ्कर्षणादयस्त्रवर्णिका अविच्छेदेन कर्तारः स्मर्यन्त एव । न च विद्वज्जनानादरस्तेषाम्, विद्वद्भिः परिव्राजकवरैरपि तदादरणात् तुर्ये च ज्ञानकाण्डे भगवद बादरायणसूत्रवृत्तिकृता भगवत्पुष्कराक्षेण परिव्राजकमुख्येन पञ्चरात्रादेर्वेदमूलत्वमङ्गीकृतम् । तत्सूत्रकृतोऽपि 'विज्ञानादिभावे वा तदप्रतिषेध:' [ ब्रह्मसूत्र २.२.४४ ] इति वदतस्तत्प्रामाण्यमभिप्रेतमिति लक्ष्यते । अस्य सूत्रस्यार्थमाहुः - " ज्ञानानुत्पत्तिकृतं संदेहनिबन्धनं विपर्य - यहेतुकं वा अप्रमा [101A]णं भवति । तदेतत् त्रिविधमपि पञ्चरात्रादिषु नास्ति । 'विज्ञानादिभावे ' विज्ञानं तावत् तेभ्य उत्पद्यत इति विज्ञानानुत्पत्तिलक्षणाप्रामाण्यनिरासः । आदिग्रहणाद्धि संशयविपर्यययोः पर्युदासः । वाशब्दः पक्षान्तरनिवृत्त्यर्थः । अतस्तदप्रतिषेघः प्रामाण्याप्रतिषेध इत्यर्थः इत्यलं बहूक्कया ।"
येsपि वेदविदामय्या इति । तथा हि भारते
११२
Jain Education International
पञ्चरात्रं च साङ्ख्यं च वेदाः पाशुपतं तथा ।
ज्ञानान्येतानि राजेन्द्र ! विद्धि नाना मतानि च ॥ इति ॥ [ शान्तिपर्व ० ३३७.५९ ]
For Private & Personal Use Only
www.jainelibrary.org