________________
का०पृ०१३५, वि०पृ०१४९] न्यायमञ्जरीप्रन्थिमङ्गः
अत्र भवतैवात्मनः प्रतिकूलमभिहितमिति । भूयोऽवयवसामान्ययोगो यद्यपि मन्मते । सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि ॥
इति वदता भवता सादृश्यस्य सत्त्वं तावदभ्युपगतम्, ग्रहणं तु सामान्यवद् भविष्यतीत्येतदेव 'सामान्यवच्च' इत्यादिना[श्लोवा० उप०३५] व्यक्तीकृतम् । भूयोऽवयवसामान्ययोगस्य सादृश्यलक्षणस्य इष्टतामासेव्य प्रभाकरेण तल्लक्षणं कृतम्"सादृश्यमिति सादृश्यम्"[बहती० १.१.५.]; (सादृश्यम्] अनेनास्य', 'अमुना सदृशोऽयम्' इति यतो बुद्धिरुत्पद्यते तत् सादृश्यम् ।
चित्रादावव्याप्तिरिति । चित्रे रेखारूपे हि न खुरत्वादिसम्भवः, प्राणिस्थखुराद्यवयवव्यङ्ग्यत्वात् तेषां खुरत्वादीनाम् ।
'अथ त्वधिकता काचित्' इत्यस्योत्तरमर्धम्-'यावद्धीन्द्रियसम्बद्धं तत् प्रत्यक्षमिति स्थितम्' इति[ग्लोवा० उप० ९] ।
यमयोरिति । युगपदेकस्मिन् गर्भे सम्भूतौ यमौ । सामान्ययोगोऽन्योऽन्यच्चेति । सत्यपि सामान्ययोगे प्राण्यन्तरेषु सदृशप्रत्ययानुत्पादात् । - अपरीक्षामिषेणापीति' । न परीक्षितव्यानि प्रत्यक्षादीनि प्रमाणानीति मिषेण व्याजेन ।
आग्नेयो[60B]ऽष्टाकपाल इति । अयं हि दर्शपूर्णमासप्रधानयागषट्कान्तःपातित्वाद् विहितसकलेतिकर्तव्यताकः । विध्यादिरस्तीति । यद्वाक्यमुपलभ्य पुरुषः कस्मिंश्चिदर्थे प्रवर्तते कुतश्चिद् विनिवर्तते स विधिः; विधीयतेऽनेनार्थ इति, यथा लोके 'देवदत्त गामभ्याज शुक्लाम्' इति, तस्य 'अभ्याज' इति आदिः, इतरोऽन्तः; वेदेऽपि 'दर्शपूर्णमासाभ्यां यजेत' इति विध्यादिः, विध्यन्तोऽप्रधानविवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्, तेन सहितोऽयं विध्यादिविशिष्टापूर्वनिर्वृत्तं प्रति पुरुषं प्रवर्तयति' इति विध्यादिविध्यन्तयोर्लक्षणम् ।।
भिन्नानुमानादुपमेयमुक्तेति । अग्न्यादियुतं 'आग्नेयोऽष्टाकपालो भवति' इत्यादिसम्बद्धं यत् प्रयाजादिकमितिकर्तव्यताजातम् । सौर्यादिवाक्यैः 'सौर्य चरुं निर्वपेद् ब्रह्मवर्चसकामः' तै०सं० २.३.२.३]इत्यादिभिः । असहापि दृष्टं तैः सहाश्रुतमपि, तद्गतत्वेन कथं प्रत्याययेदुपमेति ? नोऽस्माकमुपयुज्यते । कथं च प्रत्याययितुं शक्नुयादित्याह-सादृश्यतः तत्सदृशत्वादाग्नेयादेः ।
१. प्रलो०वा शब्दलक्षण०७। २ प्रतौ तु ... प्रवर्तयति । तस्मात् सो भू इति...' इस्येवरूपः पाठो लब्धः । ३ प्रलोभ्वा०उप०५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org