________________
कारणतावादः । तस्य सहभाव इति वाच्यम् । बाधात् । न च सहभावनिरूपकत्वमेव सहभावार्थ इति वाच्यमेतदन्तर्भावेन कारण पदार्थत्वे व्यापाराग्रहदशायां कारणव्यवहारोच्छेदप्रसङ्गात् । न च विनश्यदवस्थकर्मादिकारणत्वव्यावृत्त्यर्थं सहभावों विशेषणमिति वाच्यम् । तत्रापि स्वरूपयोग्यतारूपकारणत्वस्येष्टत्वात् । कार्याभावस्तु तत्र सहकारिविरहात् । किञ्च, कार्यसहभूतत्वे सत्यनन्यथासिद्धनियतपूर्ववर्तिजातीयत्वं त्वयाऽपि वाच्यम् । न तु प्रतिव्यक्ति कार्यसहभावः । अन्यथा कारणत्वानिश्चयेन प्रवृत्तिः कापि न स्यात् । सहभावस्य कार्योंत्पत्तेः पूर्व निरूपयितुमशक्यत्वात् । तज्जातीयत्वं तु विनश्यदवस्थसाधारणमिति कथं सहभावेनापि विशेषणेन तदव्यवच्छेदः।
नापि पञ्चमः । सहकारित्वनिर्वचने आत्माश्रयप्रसङ्गात् । सहकारिपदेन तदन्यविवक्षायां विरहपदेन च संसर्गाभावविवक्षायां च तदितरसंसर्गाभावविवक्षायां च तदितरससंर्गाभावप्रयुक्तकार्याभाववत्त्वमित्यर्थः स्यात् । तत्र किं प्रयुक्तत्वं, जन्यत्वं वा व्याप्यत्वं वा व्यापकत्वं वा । एवं कार्याभावोऽपि प्रागभावो वा अत्यन्ताभावो वा प्रध्वंसो का । संसर्गाभावत्वेन रूपेण त्रितयमपि वा । न तावदाधः प्रागभावाऽत्यन्ताभावयोरसाध्यत्वात् । प्रध्वंसस्यापि दण्डविरहाजन्यत्वात् । संसर्गाभावत्वेन त्रितयसाधारणेऽप्येतदेव दूषणम् । नापि द्वितीयः । यावत् तदितरसमवहितेऽपि तत्र शिलाशकलादौ विकल्पितकार्याभावस्य दर्शनात् । सहकारिविरहव्यतिरेकेण कार्याभावस्य सम्भवाद् अव्याप्यत्वात् । नापि तृतीयः। प्रागभावस्य तदितरविरहव्यापकत्वाभावात् । तदितरविरहिणि" कचिच्छिलाशकलादौ प्रागभावाभावात् । एवमत्यन्ताभावोऽपि न तदितरविरहव्यापकः। तदितरविरहिणि अङ्करपागभाववति बीजादौ तदत्यन्ताभावाभावात् । एवम्भूतात्यन्ताभावस्य शिलाशकलादावपि विद्यमानत्वेनातिव्यापकत्वाच्च । एवं प्रध्वंसोऽपि । संसर्गाभावविवक्षायामत्यन्ताभावमादाय शिलाशकलादावयतिप्रसक्तिस्तदवस्थैव । न चैतदनुरोधेनाऽन्योन्याभावविशेष एव कारणत्वमिति कल्पनीयम् । क्लुप्तप्रतियोगिकान्योन्याभावस्या
१. M, omits तस्य । २. P drops कारणत्व-। ३. M, adds अपि । ४. M, reads सहकारिनिर्वचने । ५. P reads तज्जन्यत्वं वा, तव्याप्यत्वं, तदुव्यापकत्वं वा । ६. Mg +I.O. read अजन्यत्वात् । ७. Pn-reads तत्र तत्र । e. P reads .व्यतिरेकेऽपि । ९. P reads कार्याभावसम्भवात् । १०. MI reads तदितरविरहित्वे । ११. P+Ms+I.O. omit बीजादौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org