________________
न्यायसिद्धान्तदीपे
तद्धेतोरेवास्तु किं तेनेत्याशङ्कते प्राभाकरः- न चेति (९५ - १८) । अन्यथाख्यातिकारणतया स्वीकृतो यो भेदाग्रहस्तस्यैव व्यवहारकारणत्वमस्तु किमन्यथाख्यातिस्वीकारेणेत्यर्थः । तस्यैवेति ( ९५ - १८ ) । अन्यथाख्यातिकारणत्वेनावश्यकस्य भेदाग्रहस्य कारणत्वमस्त्वित्यर्थः । समाधत्ते नैयायिकः - अन्यथेति (९५ - १९) यदि लाघवेन पुरोवर्त्तिविशेष्यकर जतत्वप्रकार कज्ञानस्य कारणत्वे सिद्धेऽन्यथाख्यातौ सिद्धायां कार्य कारणं विना नोपपद्यते इत्यन्यथाख्यातिरूप कार्यान्यथानुपपत्त्या भेदाग्रह एव कारणत्वेन स्वीक्रियते । तत्रेति (९५ - १९) तस्यामन्यथाख्यातौ अग्रहो नाम भेदाग्रहस्तस्य कारणत्वकल्पनस्योचितत्वात् ।
२०८
ननु भेदाग्रहस्यान्यथाख्यातिं प्रति कारणता, सा व्यवहारे एवास्तु इत्यत आह - नन्वेवमिति (९५ - २१) । व्यवहारे भेदाग्रहस्य कारणता गुरुभूता । अन्यथाख्यातेः कारणता लघुभूता । तत्रेति (९५ - २१) रजतव्यवहारे । अग्रहेति ( ९५ - २१) भेदाग्रहणकारणतायाम् । विवादादिति (९५ - २१) | गौरवेण भेदाग्रहस्य व्यवहारकारणतायां गौरवादित्यर्थः ।
प्राभाकरः शङ्कते - रजतज्ञानस्येति (९५ - २१) । रजतव्यवहारे कारणता रजतज्ञानस्यावश्योपजीव्यत्वेन तिष्ठतु तथापि तत्र प्रवृत्तिसमानविषयत्वं नाम यत्प्रवृत्तौ विशेष्यं तद्विशेष्यकत्वं यत् तत्तु उपजीव्यं न भवति रजतज्ञानकारणतायाम् । यदि रजतज्ञानकारणतायां प्रवृत्तिसमानविशेष्यकत्वम् उपजीव्यं स्यात् तदा प्रवृत्तौ विशेष्यं शुक्तिः तद्विशेष्यकं शुक्तिविशेष्यकं रजतत्वप्रकारकं ज्ञानं कारणमागतमित्यन्यथाख्यातिसिद्धिः स्यात् । तदेव प्रवृत्तिसमानविशेष्यकत्वमुपजीव्यं नास्ति रजतज्ञानस्य । ननु संवादिप्रवृत्तिस्थळे प्रवृत्तिसमानविशेष्यत्वस्य रजतज्ञानकारणतायामुपजीव्यत्वात् विसंवादिप्रवृत्तिस्थलेऽपि तदेव प्रवृत्तिसमानविशेष्यकत्वम् उपजीव्यमस्तु इत्यत आहसत्यरजतेति (९५ - २३) । सत्यरजतस्थलेऽपि या रजतज्ञानस्य प्रवृत्तिसमानविशेष्यता सा तु दैवादागता न तु कारणत्वानुरोधेनेत्यर्थः ।
दूषयति नैयायिकः — प्रवृत्तीति (९५ - २३) । रजतप्रकारकज्ञानस्य कारणतायाम् उभयवादिसिद्धायां प्रवृत्तिं प्रति रजतभेदग्रहस्थळे रजतत्वप्रकारकज्ञाने स्मरणरूपे विद्यमानेऽपि प्रवृत्तिर्न जायते । तत्रातिप्रसङ्गवारणार्थं प्रवृत्तिसमानविशेष्यकत्वमेव कारणतावच्छेदकत्वेन उपजीव्यं, न तु भेदाग्रहः कारणमेवेति पूर्वोक्तमेव । अनुपजीव्यत्वे (९५ - २३ ) इति । कारणतायामनुपजीव्यत्वे इत्यर्थः । अतिप्रसङ्गादिति ( ९५ - २४ ) | मेदग्रहे सत्यपि प्रवृत्तिः स्यादित्यतिप्रसङ्ग इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org