________________
७७
प्रायश्रितस्य मेदाः आलोअंते संकेससोहिओ नाउ दिज्ज तम्मत्तं । हीणं वा अहिरं वा छम्मास बहुअपावेवि ॥ १२२ ॥
व्याख्या-'आलोअंते' इत्यत्र षष्टयर्थे सप्तमी । ततश्चालोचयत-आलोचना गृहृतः पुरुषस्य सडक्लेशविशुद्धितः-सङ्क्लिष्टविशुद्धपरिणामाभ्यां ज्ञात्वा-खरूपमवगम्य दद्यात् । किमित्याह-तन्मात्रंजीतोक्तमानं प्रायश्चित्तं, हीनं वा-जीतोक्तादल्पं वा, अधिकं वा-जीतोक्ताद् बहुतरं वा । अयमर्थः-आलोचनाकालेऽप्येकमप्यपराधविशेषं यः सर्वथा न प्रकाशयति, कथयन्नप्यर्द्धकथितं वा करोति स सलिष्टपरिणाम इति कृत्वा तस्य जीतोक्तादधिकमपि दद्यात् । यः पुनः संवेगमुपगतो निन्दा-गर्दादिमिविशुद्धपरिणामः तस्य जीतोक्ताद्धीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामः तस्य जीतोकमात्रमेव दद्योदिति । तथा बहुकेऽपि-मूलानवस्थाप्ययोग्येऽपि पापे कृते श्रीमहावीरस्य तीर्थे षण्मासिकमेव प्रायश्चित्तं दीयते नाधिकमिति । एतच प्रायश्चित्तं श्रावकाणां श्राविकाणां च शक्त्यादिकं विचार्य दातव्यमित्यर्थः ।। १२२ ॥
अथोक्तप्रायश्चित्तस्य भेदानाह
दाण-तव-कालपच्छित्तमिह तिहा गुरुलहुत्ति पुण दुविहं ।
गुरुमवि संतरदाणे लहू निरंतरि लहवि गुरू ॥ १२३ ॥
व्याख्या-दानतपःकालभेदात् प्रायश्चित्तमिह जोते त्रिधा । दानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तं चेति । एकैकं गुरुकं लघुकं च भवतीति पुनरपि द्विविधम् । तत्र दानप्रायश्चित्तद्वैविध्यमाह-गुर्षपि प्रायश्चित्तं सान्तरदाने-अन्तरेण सह दीयमानं लघु भवति-दानमाश्रित्य लघुकमुच्यत इत्यर्थः। तथा निरन्तरे तु दाने लघ्वपि प्रायश्चित्तं गुरुकं भवति-दानमाश्रित्य दुष्करत्वाद् गुरुकमुच्यत इत्यर्थ इति गाथार्थः ॥ १२३ ॥
उक्तं दानप्रायश्चित्तद्वैविध्य, सम्प्रति तपःकालप्रायश्चित्तद्वैविध्यं विवरीषुराह
छद्रुतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे ।
तं लहुमवि कालगुरू गुरूवि लहुअं सिसिरवासे ।। १२४ ॥
व्याख्या-भिन्नादिकं षष्ठान्तं-षष्ठं यावदीयमानं प्रायश्चित्तं तपो लघु भण्यते, अष्टमादिकं तदेव दीयमानं तपो गुरुर्भण्यते-षष्ठान्तं तपो दीयमानं तप आश्रित्य लघुकमष्टमान्तं तपो दीयमानं तप आश्रित्य गुरुकमुच्यते इत्यर्थः । तथा यद् ग्रीष्मे-निदाघकाले ऊह्यते तद् दानतपोभ्यां लध्वपि कालगुरु, कालस्य दारुणत्वात् कालमाश्रित्य गुरुकमुच्यते । तथा दानतपोभेदाभ्यां गुरुकमपि लघुकं भवति, यत् शिशिरे वर्षासु चोहते, कालस्य स्निग्धत्वादिति भाव इति गाथार्थः ॥ १२४ ॥
साम्प्रतं जीतव्यवहारयन्त्रकस्वरूपममिधित्सुरिमां द्वारभूतां गाथामाह
ति-नव-सगवीस-इगसी पक्खे-आवत्ति-दाण-कालतिगे । नवतवसुअववहारे जंते दसरेह तिरिउड्ढे ॥ १२५ ॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org