________________
७६
श्राद्धजीतकल्पे संघस्सायरिअस्सा असहस्स गिलाणवालवुड्स्स ।
उदयग्गिचोरसावय-भयकंतारावइवसणे ॥ १२० ॥
व्याख्या-यद्यपि पूर्व ज्ञानादयश्चतुर्विशतिः कल्पस्य भेदा उक्ताः, तथाप्यत्र झानदर्शनयोः समानत्वख्यापनार्थ छन्दोनुरोधाच्च दर्शनोदय उच्यमाना न दोषाय । ततो ' दसण 'त्ति । ' व्याख्यानतो विशेषप्रतिपत्ति 'रितिन्यायाद्दर्शनं-दर्शनप्रभावकाणि प्रमाणशास्त्राणि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः । एवं सर्वत्र यथायोगं भावना कार्या १ । एवं ज्ञान-विशेषश्रुतज्ञानं तद् गृहनसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धः २। तथा चारित्र-तपः-प्रवचन-समितिगुप्तिहेतुषु पञ्चसु सम्यगाराध्यमानेष्वपि द्रव्यक्षेत्रादिवैषम्याद् बहुविराधनासम्भवमुत्पत्स्यमानं कश्चिदु. पद्रवं सम्भाव्य तत्परिहारार्थ यतनया कमप्युपायं कुर्वतः कापि स्वल्पा विराधना सम्भवेत् तथापि शुद्धः, प्रवचनार्थं विष्णुकुमारवत् ७ । तथा साधर्मिकवात्सल्येनापि-साधर्मिकवात्सल्यमाश्रित्य तत्समाधोनोय किञ्चिन्निषिद्धमपि यतनया कुर्वीत श्रीवत्रस्वामिवत् ८ । कुलगणकार्ययोः सङ्घकार्ये वा समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुक्ते चूर्णयोगादीन् वा करोति ११ । आचार्या सहिष्णुग्लानबालवृद्धानां येन समाधिर्भवति तदपि तदुपकाराय यतनया करोति । तत्र राजयुवराजामात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते १६ । उदकाग्निचौरश्वापदादीनामागमनं दृष्ट्वा उदकपूर-प्रदीपन-तस्कर-व्याघ्रादीन् स्तम्भनविद्यया स्तभ्नीयात विद्याया अभावे पलायेत २० । भयंव्याघ्रादेः (धाट्यादेः) तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् २१ । कान्तारे चानपानाद्यप्राप्तौ निषिद्धमपि स्वल्पदोषमाहारादिकं सशङ्कः सन् यतनया गृहीयात् २२ । आपच्चतुर्द्धा-द्रन्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यापत-प्रासुकानपानाचलाभः, क्षेत्रापत-दीर्घाध्वप्रतिपनत्वम्, कालापद्दुर्भिक्षादिः, भावापद्-ग्लानत्वादिः, तस्यां किञ्चित्प्रतिषिद्धमपि यतनया समाचरेत् २३ । व्यसनं-गीतताम्बूलोद्यभ्यासो, गीतव्यसनितया सामायिकपौषधस्थोऽपि गीतोच्चारं कुर्यात् ताम्बूलव्यसनितया वा निषिद्धताम्बूलोऽपि शुष्कपत्रादि मुखे प्रक्षिपेत् २४। एष चतुर्विशतिभेदः कल्प इति गाथार्थः ॥११९।१२०।।
अथ पूर्वोक्तमेवार्थ दृढयन्नाह
इअ दव्वाइ बहुगुणे गुरुसेवाए य बहुअरं दिजा ।
हीणयरे हीणयरं हीणयरं जाव झोसत्ति ॥ १२१ ॥ व्याख्या-इति-अमुना प्रकारेण द्रव्यादौ-द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे-बहुगुणिते प्रचुरे दोषवत्त्वेन समर्थे वा विपरीतलक्षणया वा बहुदोषे गुरुसेवायां-गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् । तथा हीनतरे-अल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे यावत्सर्वहीने अत्यल्पदोषे द्रव्यादोवल्पीयस्यां सेवायां 'झोस 'त्ति क्षपणा-हासः कार्यः सर्वस्तोकं तपो देयमित्यर्थ इतिगाथार्थः ॥ १२१ ॥
इदं पूर्वव्यावर्णितस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org