________________
भावविषयं प्रायश्चित्तं पुरुषस्वरूपं च
___७३ यस्मिन् स तथारूपः कालः स्निग्धः । स चोत्कृष्टो मध्यमो जघन्यश्च । तत्रोत्कृष्टस्निग्धो बहुशीतः __मध्यमस्निग्धोऽबहुशीतः । जघन्यस्निग्धः स्तोकशीतः । 'इय'त्ति । इतिः पूर्वोक्तप्रकारसमावेशार्थः । तत
श्चेति-पूर्वोक्तप्रकारेण रूक्षोऽपि त्रिविधः। क सति ? उष्णत्रिके-बहबहुस्तोकोष्णत्वे सति । इदमुक्तं भवतिउत्कृष्टरूक्षो बहूष्णः । मध्यमरूक्षोऽबहूष्णः । जघन्यरूक्षः स्तोकोष्णः । स च स्रिग्धो रूक्षोऽपि कालखिविधः । ग्रीष्मः शिशिरो वर्षालक्षणश्च । अयमर्थः-स्तोकशीतो जघन्यस्निग्धो बहूष्ण उत्कृष्टरूक्षश्च प्रीष्मः। अबहुशीतो मध्यमस्निग्धोऽबहूष्णो मध्यमरूक्षश्च शिशिरः । बहुशीत उत्कृष्टस्त्रिग्धः स्तोकोष्णो जघन्यरूक्षश्व वर्षा इति । इदमत्र तात्पर्यम्-प्रीष्मशिशिरवर्षाषु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि, षष्ठाष्टमदशमानि मध्यमानि, अष्टमदशमद्वादशान्युत्कृष्टानि दद्यात् । एतजा स्वयमेव वक्ष्यति । इति गाथार्थः ॥ इत्युक्तं कालद्वारं । साम्प्रतं भावविषयं प्रायश्चित्तं पुरुषस्वरूपं चाह
हट्ठस्स दिज्ज भावे न गिलाणस्स व सहिज्ज जं च तयं ।
दिज्ज सहिज्ज व कालं पुरिसा सह असह असढाई ॥११२ ॥ व्याल्या-भावे-भावतः कश्चिदालोचनाग्राही हृष्टो-निरोगः समर्थः । कश्चिद् ग्लानो-रोगी शक्तिविकलश्च । इत्येतद्विचार्य हृष्टस्य जीतोक्तादधिकमपि दद्यात् , ग्लानस्य तु न दद्यात् , वाशब्दाज्जी. तोक्तादूनं वा दद्यात् । यच्च वा यावन्मानं स सहते-कर्तुं शक्नुयात् तत्प्रायश्चित्तं तावन्मात्र ग्लानादेरालोचनाग्राहिणो दद्यात् । कालं वा सहते-यावता स प्रगुणो भवति, तावन्तं कालं प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य सतो दद्यादित्यर्थः । उक्तो भावः । साम्प्रतं सक्षेपेण पुरुषद्वोरमाह-तत्र केचित् पुरुषा आलोचनाप्राहिणः सहाः-सर्वप्रकारैः समर्थाः । अपरे असहा-असमर्थाः । तथा केचिदशठाः-सरला. त्मानः, आदिशब्दात् केचिच्छठा-मायाविनः । एवं गीतार्थपरिणामकादयश्च भवन्तीतिशेषः । ते च गीतार्थादयोऽमी । इह प्रवचने अनेकविधाः शिष्याः-गीतार्थाः परिणामका अपरिणामका अतिपरिणामकाः शैक्षा उच्छृङ्खलाश्चेति । तत्र गीतार्थो-'गीयं भण्णइ सुत्त'मित्यादिगाथोकस्वरूपः । तथोत्सर्ग उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधति आचरन्ति च ते परिणामकाः। ये पुनरुत्सर्गमेव श्रद्दधत्याचरन्ति च, अपवादं तु न श्रद्दधत्याचरन्ति वा ते अपरिणामकाः । ये चापवादमेवाचरन्ति, नोत्सर्ग ते अतिपरिणामकाः । शैक्षा-नवदीक्षिताः उच्छृङ्खला-उल्लुण्ठाः, अपरिणामकादयोऽपात्रं-न सिद्धान्तरहस्ययोग्या इति गाथार्थः ॥ ११२ ।। एवं विचार्य किं कार्यम् ? इत्यत आह
जो जह सत्तो बहुतरगुणो अ तस्साहियपि दिज्जाहि ।
हीणस्स हीणतरयं झोसिज्ज व सव्वहीणस्स ॥ ११३ ॥ भणियं च ।।
व्याख्या-पूर्वोक्तपुरुषाणां सहाऽसहादीनां मध्याघा यथा शक्तः-तपः कतुं क्षमः बहुतरगुणो वा-धृतिसंहननादिसम्पन्नः परिणतादिर्वा भवेत् , तस्याधिकमपि-जीतोक्कादतिरिक्तमपि दद्यात् । तथा
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org