________________
श्राद्धजीतकल्पे एतच्च कस्य ? इत्याह-'सुद्धस्स वित्ति । शुद्धस्यापि-सामान्येन निरतिचारस्य, अपिशब्दात् सातिचारस्यैकं समासेवितानेकातिचारायातं प्रायश्चित्तं, द्वितीयं च वर्षाद्यापनमिदं दीयते इति । आलोचनाप्रवेशावधिकाल उत्कषेतोऽपि वर्षपर्यन्त एव दीयते नाधिक इत्येके । अन्ये त्वाहुर्बालालोचनाया वर्षत्रथमिति । अपरे पुनर्यथाशक्ति इतिगाथार्थः ॥ १०८ ॥
सम्प्रति विशेषाभिधानाय प्रस्तावनामाह
पायमिमं ओहुत्तं विभागओ हीणमहिअ तम्मत्तं ।
दिजा नाउं दन्वाइ-पुरिस-पडिसेवणविसेसे ॥ १०९ ॥
व्याख्या–प्रायो-बाहुल्येनेदं-पूर्वोक्तं प्रायश्चित्तदानं ओघेन-सामान्येन उक्तं-द्रव्याद्यविभागतः प्रतिपादितं, विभागतो-विशेषतः पुनहींनमधिकं तन्मात्रं वा-जीतोक्तमात्रमेव वा दद्यात् प्रायश्चित्तमितिशेषः । किं कृत्वेत्याह-' नाउ 'ति । ज्ञात्वा-अवगम्य द्रव्यादिपुरुषप्रतिसेवनाविशेषान् । अयमत्र भावार्थ:-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवनाविशेषेषु हीनेषु हीनम् , अधिकेष्वधिकम् , अहीनोत्कृष्टेषु तन्मात्रं-जीतोक्तसममेव प्रायश्चित्तं दद्यादिति गाथार्थः ।। १०९॥
तत्र द्रव्यक्षेत्रकालाभिधित्सयाऽऽह
दव्वे सुलहे बलिए य अहिअमूणं व दुब्बले दुलहे ।
खित्ते ऊणहिअं रुक्ख सीयले एव काले वि ॥ ११ ॥
व्याख्या-आहारादिकं द्रव्यं यत्र देशे सुलभं बलिकं च स्यात् । यथा-अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तस्मिन् सत्यधिकं जीतोक्ताद् बहुतरमपि दद्यात् । यथा यत्र पुनर्वल्लचणककालिकादिको रूक्षाहारो दुर्लभो दुर्बलश्च तस्मिन् सति ऊनं-हीनं जीतोक्तादल्पमपि दद्यात् , चशब्दात् साधारणे द्रव्ये जीतोक्तमेव दद्यात् । न हीनमधिकं वेत्यनुक्तमपि ज्ञेयम् । तथा क्षेत्रे-ग्रामादौ ऊनमधिकं तन्मात्रं वा दद्यात् । किविशिष्टे ? इत्याह-रूक्षे-स्नेहरहिते, उपलक्षणाद्वातिले वा हीनं, शीतले पुनः स्निग्धे-अनूपे वा क्षेत्रे जीतोक्तादधिकमपि दद्यात् , चशब्दात् साधारणं चानुक्तमपि ग्राह्यम् । तत्र साधारणे मध्यस्थे-अस्निग्धरूले जीतोक्तमात्रमेव दद्यान्न पुनरूनोधिकम् । तथा-' एव काले वित्ति । एवममुनैवोक्तप्रकारेण जीतोक्ताऽधिकसमहीनानि तपांसि कालेऽपि त्रिविधे-वर्षाशिशिरग्रीष्मलक्षणे यथासङ्ख्यं दद्यादिति सामाम्यातिदेश इति गाथार्थः ।। ११० ॥ इति सामान्येन कालस्वरूपातिदेशमभिधाय विशेषतः कालस्वरूपामिधित्सयाऽऽह
बहु-अबहु-थोवसीओ निदो उक्कोसमज्झिमजहन्नो ।
इअ रुवखो उपहतिगे काले गिम्हो सिसिरवासा ।। १११ ॥ व्याख्या-अत्र सामान्येन कालो द्विधा-स्निग्धो रूक्षश्च । स च द्विरूपोऽप्युत्कृष्टमध्यमजघन्यभेदात्रिधा । तदेवाह-बहु-अबहु-स्तोक-शोतः स्निग्धः । बहु-घमं अबहु-मध्यमं स्तोकमल्पं च शीतं
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org