________________
७०
श्राद्धजीतकल्पे चतर्गरु प्रायश्चित्तं भवति । तथा अव्रतेऽपि-नियमाभावेपि सुश्रावको यदि प्रमादेनातिथिसंविभागं तपश्च नमस्कारसहितादि न करोति लघुमासः प्रायश्चित्तम् । तथा तपः कुर्वतों निन्दाकरणे विघ्नकरणेअन्तरायकरणे, चशब्दात् प्रत्यनीकता-प्रद्विष्टताऽऽशातनादिषु च प्रत्येकं लघुमासः । एवं सामान्येन पर्युषणादिष्वष्टमाद्यकरणे च लघु । विशेषतः पुनरेवम्-'पक्खिए विसेसतवं अकरितस्स बालस्स पणगं, वुड्ढस्स लघु, तरुणस्स गुरु । चाउम्मासिए बालस्स लहु, वुड्ढस्स गुरु, तरुणस्स चउलहु । संवच्छरिए बालस्स गुरु, वुड्ढस्स चउलहु, तरुणस्स चउगुरु इति ॥ १०३ ।।
संकेयद्धाभंगे अट्ठसयं लहु गुरू तदहियं वा ।
तम्मत्तं वा चरिमाकरणे भंगे लहू वमणे ॥ १०४ ॥
व्याल्या-सङ्केतप्रत्याख्यानमगठमन्थिसहितादि । अद्धाप्रत्याख्यानं-नमस्कारसहित-पौरुषीसार्द्धपौरुषी-पुरिमार्द्धादि । एतयोरुपलक्षणत्वाद् द्वथासनकासनादीनां च भङ्गेऽष्टोत्तरशतं नमस्काराणामिति शेषः । 'लहु 'त्ति । अन्ये त्वेतेषां भने लघुमासमाहुः । 'गुरू'त्ति । अपरे तु गुरुमासं । 'तदहियं वत्ति । केचिन्नमस्कारसहित-पौरुषी-पुरिमार्द्धा-पार्द्ध-द्वथासन-कासन-निर्विकृतिका-चाम्ल-क्षपणानां भने तदधिकप्रत्याख्यानदानं । ' तम्मत्तं व 'त्ति । इतरे पुनर्यदेवकासनादि प्रत्याख्यानं भज्यते तदेव भणन्ति । एकासनादीत्यर्थः । क्वचिदेवं व्याख्या-सङ्केतभङ्गे नमस्काराणामष्टोत्तरशतम् । अन्ये तु लघु. मासं चाहुः। अद्धाभङ्गे तदधिकं, यथा क्षपणभड़े क्षपणद्वयं, ग्रन्थिसहितादिभङ्गे नमस्कारशतद्वयं तावन्मात्रमेव वा स्यादिति । तथा ' चरिम 'त्ति । पदेकदेशे पदसमुदायोपचारात् दिवसचरिमप्रत्याख्यानस्याकरणे-ग्लानत्वादिकारणाभावेऽप्यविधाने भङ्गे च प्रत्येकं लघुमासः । मतेन पञ्चकम् । अन्ये तु पानकासंवरणे पञ्चकम् । वमनात् प्रत्याख्यानभङ्गे लघु । मतेन पञ्चकम् । मतान्तरेण सर्वप्रत्याख्यानभने प्रत्येकं भिन्नमिति गाथार्थः ।। १०४ ॥
अथ वीर्याचारविषयं प्रायश्चित्तविधिमाह
भिन्नाइ सयं पारे पच्छन्याऽविहिकए अपुन्नकए ।
गुरुमासाइ अकरणे इग-दु-ति-चउवंदणुस्सग्गे ॥ १०५ ॥
व्याख्या-उत्सर्गतो गुरुसामग्रीसद्धावे गुरुणा सार्द्ध प्रतिक्रमणं कुर्यात् 'पडिकमणं सह गुरुणा' इति वचनात् । तत्र गुरुभिः साई प्रतिक्रमणं कुर्वन् श्राद्धो यदि गुरुणा कायोत्सर्गे अपारिते स्वय प्रथमं पारयति, गुरुणा वा कायोत्सर्गे छते पश्चात्क्षणमात्रेण करोति, अविधिना या घोटकलताद्या. वश्यकसूत्रायुक्तकायोत्सर्गकोनविंशतिदोषैर्दुष्टं करोति, अपूर्ण वा निजनिजप्रमाणतो न्यूनमुपलक्षणादधिकं वो करोति । एतद्दोषदुष्टेष्वेकद्वित्रिचतुःसङ्ख्येपु कायोत्सर्गेषु · मिन्नाइ 'त्ति । मिन्नादि प्रायश्चित्तं भवति । तथाहि-एकस्मिन्नुत्सर्गे स्वयं पारिते पश्चात्कृते अविधिना कृते अपूर्णकृते वा भिन्नमासः । एवं द्वयोरुत्सर्गयोलघुमासः । त्रिषु कायोत्सर्गेषु गुरुमासः । तुर्पु कायोत्सर्गेषु चतुर्लघवः । तथा 'ऽकरणे'त्ति । निद्रालस्यादिना सर्वथा पुनरकरणे एकस्योत्सर्गस्य पुमासः । द्वयोर्गुरुमासः । त्रिषु चतुर्लघु । चतुर्षु चतुर्गुरु प्रायश्चित्तं भवति । एवं वन्दनकेऽपि प्रायश्चितविधिर्भावनीयः । तथाहि-वन्दनकं गुरोः पूर्व पश्चाद्वा दत्ते,
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org