________________
अतिथिसंविभागविषयं तपआचारादिविषयं प्रायश्चित्तम् पुढवाइ-घट्टणाइसु मिन्नाइ अणंत-विगलि लहुगाइ ।
पंचिंदिसु गुरुमाइ दसगं सव्वेसु नवपुरओ ॥ १०० ॥
व्याख्या-पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां ‘घट्टणाइसु 'त्ति । सचट्टानागाढ-परितापोपद्रवेषु जातेषु 'मिन्नाइ'क्रमेण-मिन्नमास-लघुमास-चतुर्लघवः प्रायश्चित्तं भवति । पृथिव्यादीनां सट्टादिस्वरूपं प्राक् प्रथमाणुव्रते प्रतिपादितमेव । तथाऽनन्तकायवनरपतेर्विकलेन्द्रियाणां च सङ्घट्टादिषु चतुर्वपि 'लहुगाइ 'त्ति । यथासयं लघुमास-गुरुमास-चतुर्लघु-चतुर्गुरवः प्रायश्चित्तं भवति । तथा पञ्चेन्द्रियविषयेषु सङ्घट्टादिषु 'गुरुमाइ 'त्ति । गुरुमास-चतुर्लघु-चतुर्गुरु-षड्लघवः प्रायश्चित्तं गृहीतपौषधस्य श्राद्धस्य भवति । अत्रापि पञ्चेन्द्रियसचट्टः तदहर्जातमूषक-गृहकोलिकादिविषयो द्रष्टव्य इति । 'दसग 'मित्यादि । सर्वेष्वपि पृथिव्यादिविषयेष्वेतेषु सचट्टादिषु नवानां वाराणां परतो दशादिषु यावत्परःशतेष्वपि सञ्जातेषु दशकं स्वप्रायश्चित्तानां भवति । यथा दशमिरेकादशमिर्यावत्परःशतैश्च पृथिवीस?भिन्नदशकमेव, नाधिकं तावता तस्य शुद्ध यापत्तेरिति । नव यावत्तु यावन्तः सट्टादयः तावन्ति प्रायश्चित्तानि भवन्ति । एवमन्येषामपि भावना कार्येति गाथार्थः ॥ १० ॥
वमणे निसि वोसिरणे जिमिऊणावंदणे असंवरणे । अनिमित्त दिवा सुअणे विकहा सावज्जभासाए ॥१०१ ॥ पोरिसिमभणिअ सागारमकरिउ गाहमभणिउ सुअणे ।
चउलहुअमपेहिअथंडिलेसु मोआइ वोसिरणे ॥१०२ ।। व्याख्या-गृहीतपौषधस्य वमनं जायते । निशि व्युत्सर्जनमकालसझा भवति । तथा भुक्त्वा अवन्दनं-गुरोः कृतिकर्म न करोति । तथा असंवरणं-प्रत्याख्यानं वन्दनकदानेऽपि चतुर्विधाहारप्रत्याख्यानरूपदिवसचरिमस्वरूपं न विधत्ते । तथा अनिमित्तं-ग्लानत्वादिकं कारणमन्तरेण दिवा स्वपिति । तथा विकथाः-स्त्रीकथादिकाः करोति । तासां स्वरूपं ग्रन्थान्तरतोऽवसेयम् । तथा परोपघातिन्यादिकां सावद्यभाषां भाषते । तथा पौरुषी-पौरुषी-चैत्यवन्दनामभणित्वाऽकृत्वेत्यर्थः । तथा साकारं-पदैकदेशे पदसमुदायोपचारात् साकारानशनप्रत्याख्यानमकृत्वा । तथा 'गाथा 'मित्यत्रैकवचनं जात्यपेक्षमित्यतो गाथाः-संस्तारकगाथा-' अणुजाणह संथारमि 'त्यादिका अभणित्वा-अकथयित्वा च स्वपिति । तथा दिवा अप्रतिलिखितेषु स्थण्डिलेषु मोकादीनि-प्रश्रवणोचारादीनि व्युत्सृजति । एतेषु सर्वेष्वपि गाथाद्वय. प्रतिपादितेष्वपराधस्थानेषु चतुर्लघु प्रायश्चित्तं भवतीति गाथाद्वयार्थः । एतच पौषधोपवासव्रतप्रायश्चित्तं प्राक सामायिकव्रताधिकारे अनुक्तं यथासम्भवं तत्राऽप्यवगन्तव्यमिति ।। १०१-१०२ ।।
अथ अतिथिसंविभागव्रतविषयं तपआचारादिविषयं प्रायश्चित्तविधिमाह
चउगुरु अकारण संविभाग-पचक्खाण अकरणे नियमे ।
अवए वि लहु सुसटस्स निंदविग्धे य तव कुणओ ॥ १०३॥
व्याख्या-नियमे सति कारणं-ग्लानत्वादिकं बिना संविभागं न करोति । तथा पर्वतिथौ ___मया अमुकं प्रत्याख्यानं कर्त्तव्यं शेषतिथिपु चामुकमिति नियमे सति प्रत्याख्यानं न करोति, प्रत्येक
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org