________________
श्राद्धजीतकल्पे
प्रत्येकमनवस्थित्या कर्तुमसहस्याऽशक्तस्यालोचकस्य दानमुक्तम् । ‘कारिंति व संनिगासं तु 'त्ति । तुः पुनरर्थे वा शब्दोऽथवार्थे । अथवा पुनरयमन्यः प्रकारः-सन्निकाशं-सन्निभं वा कारयन्ति । इयमत्र भावनाश्राद्धादिर्यत्र पञ्चकल्याणमापन्नः तन्मध्यादाद्यं द्वितीयं तृतीयं वा यथाशक्त्यैकतरं द्वयादीनि वा यथोक्तप्रकारेण वहति, शेषमाचाम्लादिभिः प्रवेशयन्तीतिगाथाक्षरार्थः ।। ७५ ।।
पुनरन्यथानुग्रहप्रकारमाह
चउ-तिग-दुगकल्लाणे एगं कल्लाणगं व कारिति ।
जो जं तरइ तं तस्स दिति असहस्स झोसंति ॥ ७६ ॥ व्याख्या-यः कश्चिदालोचकः पञ्चकल्यतप आपन्नः पञ्च कल्यानि कत्तं न शक्नोति, तं चत्वारि कल्यानि कारयन्ति । तथाप्यशक्तौ कल्यत्रिकं कल्यद्विकमेककल्याणकं वा कारयन्ति । किं बहूच्यते । यः पुमान् यद् यादृशं यावन्मानं वा तपस्तरति-कर्तुं शक्नोति । तस्याशक्तस्य प्रभूतस्याप्यापत्तौ तत्तादृशं तावन्मात्रमेव च तपो ददति, गीतार्था इति गम्यते । यावन्मानं स्वशक्तिसद्भावं प्रवृत्तत्वेन तावत्तपसाऽपि तस्य शुद्धिसम्भवादन्यथा कदाचित्ततो गाढबाधासम्भवेन मनोविपरिणत्यादिसद्भावात् । यस्तदपि कर्तुं न शक्नोति तस्य किं कर्त्तव्यम् ? इत्याह-' असहस्स झोसिंति 'त्ति । असहस्यैककल्याणकादितपःकरणेऽप्यसमर्थस्य सर्व झोषयित्वा-हामयित्वा एकमभक्तार्थं ददति । अथवैकमाचाम्लं यावन्निविकृतिकं वा ददति । तदपि कर्तुमशक्तस्य न किमपि दद्यात् । भिध्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः । तथापि स शुद्धो भावशुद्धया प्रवृत्तत्वादिति ॥ ७६ ॥
एतदेव दृढयन्नाह
एवं सदयं दिज्जइ जेणं से संजमो थिरो होइ ।
न य सव्वहा न दिज्जइ अणवत्थपसंगदोसाओ ॥ ७७ ॥
व्याख्या-'एव'मिति । उक्तप्रकारेणालोचकस्य शक्तिमपेक्ष्य सदयं-सानुकम्पं तपो दीयते येन तपसा प्रदत्तन ' से 'त्ति । तस्य संयमः स्थिरो भवति-संयमस्थैर्यं भवतीत्यर्थः । न च सर्वथा न दीयतेऽपि त्वेवं पूर्वोक्तप्रकारेण स्तोकं स्तोकतरं वो दीयते एवेति । कस्मादित्याह-' अणवत्थे ' त्यादि । अनवस्थाप्रसङ्गदोषात् । यद्येवमेव शुद्धिर्भवति तर्हि पुनरप्येतत् प्रतिसेवामीत्यनवस्थाप्रसङ्गः । यद्वा-तद् दृष्टवाडन्यस्यापि तत्पापकरणे निःशङ्कत्वं स्यादिति । भिन्न एव वा प्रसङ्गनामा दोषः । उपलक्षणत्वादाज्ञाभङ्गादयो भूयांसो दोषाः सम्भवेयुरिति गाथाक्षरार्थः ॥ ७७ ।।
अथ द्वितीयाणुव्रतविषयं प्रायश्चित्तमाह
गुरुमाइतिविहमोसे मित्रं जा राइ दोसदाणिन्ने ।
डाहणि-निहिलाहे लह गुरुगा चोरे जणसमक्खं ॥ ७८ ॥ व्याख्या-इह किल द्रव्यक्षेत्रकालभावानाश्रित्योत्कृष्टादिभेदस्त्रिविधो मृषावादः । यदुक्तं निशीथचूर्णी-मुसावाओ जाव राईभोअणं, एएसिं इक्किकं तिविहं, ते य इमे तिगभेदा-उक्कोसो मज्झिमो
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org