________________
प्रायश्चित्तकरणासामर्थ्य प्रकारान्तरम्
यपर्यन्तानां सङ्घट्टादिषु दशकमेव स्वप्रायश्चित्तानां दीयत इत्यादिनैकः प्रकारः प्रतिपादितः तदपेक्षयाऽयमन्यः प्रकार इत्यर्थः । ततश्च समुदायेन बहुषु द्वित्रिचतुन्द्रियेषूपहतेषु क्रमेण द्वित्रिचतुःपञ्चकल्यानि प्रदेयोनि । अयमर्थः-द्वीन्द्रियेषु बहुषूपहतेषु द्वे कल्ये । त्रीन्द्रियेषु त्रीणि कल्यानीत्यादि । अथ सङ्कल्पदर्पाभ्यां द्वीन्द्रियादीनामुपद्रवे विशेषमाह-दशानां वाराणामुपरि एतेषु द्वित्रिचतुःपञ्चेन्द्रियेषु जीवेषूपहतेषु सङ्कल्पतो दश कल्यानि-क्षपणविंशतिः । दर्पतः पुनः पश्चाशत्कल्यानि-क्षपणशतमित्यर्थः । अत्र सङ्कल्पःप्रयोजनं दो-धावनवल्गनवरण्डाघुल्लङ्घनमल्लयुद्धादिः । अत्र केचिच्चैवं वदन्ति-एकस्मिन् द्वीन्द्रिये उपहते क्षपणं, बहुषु क्षपण-चतुष्कम् । त्रीन्द्रिये क्षपण त्रयं, बहुषु क्षपणषट्कम् । चतुरिन्द्रिये क्षपणचतुष्कं, बहुषु क्षपणाष्टकम् । पञ्चेन्द्रिये दर्पण प्रहारदाने गुरु, पीडने चतुर्लघु, मूर्छायां चतुर्गुरु, हस्तपादादिभङ्गे षडलघु, उपद्रवे क्षपणदशकम् । दर्पण पञ्चेन्द्रियोपद्रवे पश्चकल्यम् । प्रमादेन पञ्चेन्द्रियोपद्रवे क्षपणपञ्चकम् । आकुट या क्षपणविंशतिः। कल्पेन षडलघु । दर्पादिस्वरूपं त्विदम्
'आउट्रिआ उविच्चा दप्पो पुण होइ वग्गणाईओ । कंदप्पाइ पमाओ कप्पो पुण कारणे करणं' ॥ १॥ एतस्या भावार्थः - संकप्प वग्गणाई' त्यादिसप्तदशोत्तरशतगाथाव्याख्यावसरे सविस्तरं प्रतिपादयिष्यतीतीह नोच्यते इति गाथार्थः ।। ७३ ।।
अथ यथोक्तप्रायश्चित्तकरणासामर्थ्य तत्करणे प्रकारान्तरमाह
पणकल्लं पच्छित्तं अतरते जहकमेण काउं जे ।
कारिति दस चउत्थे दुगुणायंबिलतवे चेव ॥७४ ।। व्याख्या-कल्यं नि० पु० ए० आं० उ० रूपम् । तच्च पश्चगुणं पञ्चकल्यं प्रायश्चित्तं-पश्चाभक्तार्थाः, पश्चाचाम्लानि, पञ्चैकाशनानि, पञ्च पूर्वार्द्धा, पश्च निर्विकृतिकानीत्येवंरूपं बहुपञ्चेन्द्रियोपद्रवाद्यापन्नं 'अतरते 'त्ति । आलोचकान् पुरुषानतरतो यथाक्रमेण निर्विकृत्यादि यथोक्तप्रकारेण कर्तुमशक्नुवतो 'जे' इति पादपूरणे 'अजेराः पादपूरणे' इतिवचनात् । कारयन्ति दश चतुर्थान गीतार्था इतिशेषः । अयमर्थ:- एतत् पश्चकल्यं तपो यथोक्तक्रमेण कर्तुमशक्नुवतः पुरुषान् दश चतुर्थान कारयन्तीति । तथा 'चेव 'त्ति । चैवशब्दस्य विकल्पार्थत्वात् द्विगुणाचाम्लतपो वा कारयन्ति । दशचतुर्थकरणासामर्थ्य विंशतिमाचाम्लानि कारयन्तीति भावः ॥ ४ ॥
तेषामपि करणासामर्थे कि विधेयम् ? इत्याह
एगासण-पुरिमड्ढा निन्विइगा दुगुणदुगुण पत्तेयं ।
पत्तेयासहदाणं कारिंति व संनिगासं तु ॥ ७५॥ व्याख्या-एकाशनकानि पुरिमार्द्धानि निर्विकृतिकानि 'दुगुणदुगुण पत्तेयं 'ति । प्रत्येक स्थानद्विगुणवृद्धया द्विगुणानि द्विगुणानि गीतार्थाः प्राक्तनप्राक्तनकरणासामर्थ्यवतः पुरुषान् कारयन्ति । अयमर्थ :-विंशत्याचाम्लकरणाशक्तौ चत्वारिंशदेकाशनानि, तदशक्तावशीतिः पूर्वार्द्धान् , तदशक्तावपि षष्टिशतं निर्विकृतिकानां वा कारयन्ति । — पत्तेयासहदाणं 'ति । एतत् पञ्चसु कल्येषु एकक कल्यं
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org