________________
श्राद्धजीतकल्पे
बारसविहं विभागे चहुट्ठि कडं च कम्मं च । उद्देशस मुद्देस एससमाएसमेएणं ॥१॥ २ । पूतिकर्म द्विविधं सूक्ष्मं बादरं च । तत्राद्यमाधाकर्मिक धूमाग्निगन्धादिभिः स्यात्, परं तददुष्टमाचोर्णत्वादशक्यपरिहारत्वाच्च । बादरं पुनर्द्वधा - उपकरणे भक्तपाने च । तत्रोपकरणं - चूल्लीस्थाली दर्व्यादिरूपं । याच चुल्ली कियता शुद्धेन कियता चाधाकमिंकेण कर्दमेन निष्पादिता सा इत्थम्भूता उपकरणपूतिः । अनया दिशाऽन्यस्याप्युपकरणस्य पूतित्वं भावनीयम् । आधाकर्मिकचुल्लीस्थाल्यादिषु राद्धं स्थापितं वा आधाकर्मादिखरष्टितस्थास्यादौ स्थापितं वा । आधाकर्मिकभक्तादिलवेनापि मिश्रं वा भक्त वा पानं वा स्वरूपतः शुद्धमपि पूतिः - अपवित्र स्याद्यथा - अशुचिलवेनाशनादि । एतद्भक्तपानपूतिकम । यदुक्तम्
४०
"
उग्गमकोडिकणेणवि असुइलवेणं व जुत्तमसणाई । सुद्धं पि होइ पूई त सुहुमं वायरंति दुद्दा ' ।। १ ।। ३ । मिश्रजातं त्रिधा - यावदर्थिकमिश्रं पाखण्डिमिश्रं यतिमिश्रं च । यत् स्वस्य योग्यं यावदर्थिकानां पाखण्डिनां यतीनां च योग्यं प्रथमतोऽप्यग्निज्वालनाधिश्रयणदानाद्यैरशनादि मिश्रितमेव राहूमारभ्यते तन्मिश्रजातम् ४ । स्थापना द्वेधा - चिरेत्वरभेदात् । यत् साध्वर्थं भक्तादि स्थापयित्वा मुवति सा चिरस्थापना | गृहपङ्क्त्यामेकः साधुरेकत्र गृहे सम्यगुपयोगेन मिक्षां परिभावयन् गृह्णाति द्वितीयस्तु द्वयोः पार्श्वस्थयोर्दा हस्तगते द्वे भिक्षे परिभावयति । ततो गृहत्रयात्परतो गृहान्तरे साधुनिमित्त या दातृहस्तगता भिक्षा सा इत्वरस्थापना । तत्रोपयोगाभावात् ५ । प्राभृतिकाऽपि सूक्ष्मबादर भेदाद् द्विधा । तत्र गुर्वागमनं ज्ञात्वा कोऽपि श्रावको विव दादेरुपसर्पणमपसर्पणं वा यत्करोति सा बादरप्राभृतिका । यत्तु पुत्रादौ भोजनमर्थयमाने सति साध्वर्थमुत्थिता सती तवापि दास्यामीति यद्दात्री ब्रूते सा सूक्ष्मप्राभृतिका ६ । प्रादुःकरणमपि द्वेधा-प्रकटकरणं प्रकाशकरणं च । तत्र प्रथममन्धकारादपसार्य बहिः प्रकाशप्रदेशे साध्वर्थमन्नादिस्थापनं प्रकटकरणम् । सान्धकारस्थानस्थितस्यैवान्नादेर्मणि- प्रदीप- गवाक्षकुड्य छिद्राद्यैरुद्योतकरणं प्रकाशकरणम् ७ । क्रोतं चतुर्द्धा आत्मद्रव्यक्रीतम् आत्मभावक्रीतं, परद्रव्यक्रीतं, परभावक्रीतं चेति । तत्रात्मना स्वयमेव द्रव्येण - उज्जयन्तादितीर्थभगवतप्रतिमा शेषादिरूपेण प्रदानतः परमावर्ज्य यद्भक्तादि गृह्यते तदात्मद्रव्यक्रीतम् । यत्पुनरात्मना स्वयमेव भक्ताद्यर्थं धर्मकथादिना परमावर्ण्य भक्तादि गृह्यते तदात्मभावक्रीतम । तथा परेण यत्साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतम । यत् पुनः परेण साध्वर्थं निजविज्ञानप्रदर्शनेन धर्मकथाकथनादिना परमावर्ज्य भक्तादि गृह्यते तत्परभावक्रीतम् ८ । प्रामित्यं द्विधा - लौकिक लोकोत्तरभेदात् । तत्र यदुद्धारकेण वस्त्राद्यानीय साधुभ्या गृहस्थो ददाति तल्लौकिकम् । साधुरेव वस्त्राभावे साध्वन्तरपार्श्वाद्यदुद्धारकेण गृह्णाति तल्लोकोत्तरम् ९ । एवं परावर्त्तितमपि द्विधा - लौकिकं लोकोत्तरं च । नवरमत्र परावर्त्य ददाति गृह्णाति वेति वाच्यम् ९० । अभ्याहृतं नाम अमि-सम्मुखं स्वस्थानात् साधुसमीपे दानायाऽऽहृतमानीतमभ्याहृतम् । तदुद्विविध-स्वप्रामाभ्याहृतं परग्रामाभ्याहृतं च । तत्र पुनः पाश्चात्यं द्वेधा - सप्रत्यपायपरप्रामाम्याहृतमप्रत्यपायपरग्रामाभ्याहृतं वा ११ । उद्भिन्नं त्रिधा - लिप्तोद्भिन्नं दर्दरोद्भिन्नं कपाटोद्भिन्नं च । तत्र जतुछगणादिलेपेन विलिप्तं घृतघटादिमुखं साधूनां दानायोद्भिद्य यद् घृतादि दीयते तल्लिप्तोद्भिन्नम् । दर्दरं - कुतपादेमुखबन्धनं वस्त्र - चर्मादिखण्डं तमुद्भिद्य यद्दीयते तद्दर्दरोद्भिन्नम् । तथा यत्पिहितं कपाटमुद्भिद्य यद्दीयते तत्कपाटोद्भिन्नम् १२ । मालापहृतं जघन्यमध्यमोत्कृष्टभेदात् त्रेधा । तत्र भून्यस्तपादाग्राम्या
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org