________________
भिक्षादोषाः
स्थिरीकरणे च देशतश्चतुर्लघु प्रायश्चित्तं भवतीति प्रथमगाथार्थः । ' तह संघाणुववूहाइसु 'ति । तथेत्युपन्यासे । सङ्घानुपं हायां - सङ्घस्योपबृंहणाद्यकरणे, आदिशब्दात् स्थिरीकरण - वात्सल्य - प्रभावनानामकरणे च 'देसे चउलहु 'त्ति | देशतश्चतुर्लघु । 'गुरुग सव्वे 'ति । सर्वत एतेषु शङ्कादिषु कृतेषु चतुर्गुरु87। गुरुगो अ ममत्ताइस 'ति । तथा पार्श्वस्थादिषु ममत्वं - प्रतिबन्धरूपं कुर्वतो गुरुमासः ११ आदिशब्दान मरिपालन-संवास - सूत्रार्थदानादानादिष्वपि गुरुमासः री निःकारणमिति गम्यते । कारणे तु ममत्वादिकरणेऽपि न दोषः । ' लहु-गुरु- चउलहु तिविहमिच्छे'त्ति । त्रिविधे - जघन्यमध्यमोत्कृष्टभेदमिन्नेऽपि मिथ्यात्वे यथाक्रमं लघुगुरुचतुर्लघूनि प्रायश्चित्तानि भवन्तीतिगाथार्थः ॥ ५८ ॥
३९
अथ आधाकर्मादिदोषदुष्टमन्नपानादि ददानस्य श्राद्धस्य प्रायश्चित्तप्रतिपादनावसरस्तत्र पूर्वं किञ्चिदाधाकर्मादिस्वरूपं प्रन्थान्तरतो लिख्यते - इह किल सप्तचत्वारिंशद् भिक्षादोषास्तद्यथा - षोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशपणादोषाः पञ्च प्रासैषणादोषाः । तत्र उद्गमदोषा गृहस्थप्रभवाः षोडश । तद्यथा
"
'आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए अ । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ॥ १ ॥ परियट्टिए अभिहडुब्भिन्ने मालोहडे य अच्छिज्जे । अणिसिटुज्झोअरए सोलस पिंडुग्गमे दोसा ॥ २ ॥ अनयोर्लेशतो व्याख्या-आधाकर्म नाम यत् साध्वर्थमेव सचित्तमन्नपानाद्यचित्ती क्रियते १ । औद्देशिकं नाम यदुद्देशेन निष्पन्नं तच्च द्विधा - ओघतो विभागतश्च । तत्र स्वकुटुम्बार्थं पच्यमाने भक्तादौ पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समेष्यति, तस्य भिक्षादानार्थं कतिपयानधिकतरान् तन्दुलादीनोघेन - सामान्येनैतावत् स्वार्थमेतावच्च भिक्षादानार्थमित्येवं विभागरहितेन गृहनायिका यत्क्षिपति तदौघोद्देशिकम् | विभागतस्तु विवाह - प्रकरणादिषु यदुद्धरितं भक्तादि तत् पृथक् कृत्वा दानाय कल्पितमेतद्विभागेन - स्वसत्तातः पृथक्करणेनौदेशिकं विभागौद्देशिकम् । तच्च प्रथमतखिधा । उद्दिष्टं कृतं कर्म च । तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम् । यत् पुनरुद्धरितं सत् शाल्यौदनादिभिक्षादानाय करम्बादिरूपतया कृतं न पुनः काचिदपि जीवविराधना जाता तत्कृतम् । यत् पुनरुद्धरितं मोदकचूर्णादि तद् भूयोऽपि भिक्षादानाय गुडपाकदानादिना मोदकादिरूपतया कृतं कर्म । यदुक्तम्
'संखडिभत्तुव्वरियं चउण्हमुद्दिसइ जं तमुद्दिट्ठ । वंजणमीसाइ कडं तमग्गितवियाइ पुण कम्मं ॥ १ ॥ एकैकं पुनञ्चतुर्धा - उद्देशसमुद्देशाऽऽदेशसमा देशभेदेन । तत्र यदुद्दिष्टं कृतं कर्म वा यावन्तः केsपि भिक्षाचराः पाखण्डिनो गृहस्था वा समेष्यन्ति, तेभ्यः सर्वेभ्योपि दातव्यमिति सङ्कल्पेन कृत ं तदुद्देशम् । यत्तु पाखण्डिनामेव देयत्वेन कल्पितं तत्समुद्देशम् । यत् पुनः श्रमणानामेव देयत्वेन कल्पितं तदादेशम् । यच्च निर्मन्थानामेव देयत्वेन कल्पितं तत्समादेशम । यदुक्तम्
"
,
जावंतियमुद्देसं पासंडोणं भवे समुद्देसं । समणाणं आएसं निम्गंथाणं समाए ' ॥ १ ॥ ततश्चैवं भेदाभिधानम्-उद्दिष्टोद्देशम् उद्दिष्टसमुद्देशम् उद्दिष्टादेशम उद्दिष्टसमादेशम् । एवं कृत-कर्मणोरपि
भेदचतुष्टयं वाच्यम् । एवं विभागतो द्वादशधौदेशिकम् । यदुक्तम्
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org