________________
आचारप्रकल्पादिसूत्राणां त्रिवर्षादिपर्यायलभ्यत्वम् श्रीभद्रबाहुस्वाम्यादिमिः । सुविहितहितार्थाय, शोभनं विहितं येषां ते सुविहिताः-संविग्नाः साधवस्तेषां कालवैषम्याद्धीयमानप्रज्ञाबलत्वेन पूर्वश्रुतस्य चकोनविंशति-वर्षपर्यायलभ्यत्वेन च नवमपूर्वोक्तप्रायश्चित्तावगमदूरस्थानां हितमल्पग्रन्थनिबद्धत्वेनाल्पपर्यायलभ्यत्वेन च तदर्थायेति । तदुक्तम्" तिवरिसपरियागस्स उ आयारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम अंगंति ॥१॥
सकापववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि अ अंगेए अट्ठवासस्स ॥२॥ दसवासस्स विवाहो इकारसवासयस्स इमे उ । खुडिअविमाणमाई अझयणा पंच नायव्वा ।।३।। बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उटठाणसुआइया चउरो ॥४॥ चउदसवासस्स तहा आसी विसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ||५|| सोलसवासाईसु अ एगुत्तरवुढिएसु जहसंखं । चारणभावण-महसुविणभावणा तेअगनिसग्गा ॥६॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स ।।७।। जं केवलिणा भणियं केवलनाणेण तत्तओ नाउं । तस्सन्नहाविहाणे आणाभंगो महापावो" ॥८॥ (पञ्चव० ) इतिगाथार्थः ॥ ४८ ।।
अत्रोदाहरणमाहबालाईणणुकंपा संखडिकरणंमि हो अगारीणं ।
ओमे अ बीअभत्तं रना दिनं जणवयस्स ॥ ४९ ॥ व्योख्या-यथेत्यस्योदाहरणोपन्यासार्थस्य गम्यत्वाद् यथा बालादीनां-बालकर्मकरादीनामुपरि अनुकम्पा-दया 'होइ 'त्ति । भवति, कस्मिन् ? संखडिकरणे, सङ्खडी-उत्सवविशेषस्तस्याः करणमुपचारात्तद्दिनमपि सङ्खडीकरणमुच्यते तस्मिन् । केषाम् ? अगारीणां-गृहस्थानामिति । अयमों-यथा सङ्खडोदिने भोजनस्य प्रहरत्रयोद्देशे सद्भावान् मैते बुभुक्षया विषीदन्त्वित्यनुकम्पया बालफर्मकरादीनामसौ गृहस्थः प्रथमालिकादि प्रयच्छति । पुनदृष्टान्तान्तरमाह-' ओमे 'त्ति, अवमे-दुर्भिक्षे बहुवार्षिके बीजानि च भक्तं च बीजभक्तमेकवद्भावः । राज्ञा सर्वमेव राज्यं मम जनपदायत्तमिति विचिन्त्य दापितं जनपदस्य-लोकस्य, 'तास्थ्यात् तदव्यपदेश' इतिन्यायात् । ततो लोकः सुस्थः सञ्जातः, पुनस्तेन राज्ञो द्विगुणत्रिगुणाद्यर्पितमिति । एवं पूर्वश्रुतयोग्यतामप्राप्तवतां शिष्याणां सुखावबोधाय स्थविरैः कल्पादयः समुद्धृता इतिगाथार्थः ।। ४९ ॥
ततः किमित्याह
तंमि धरते अज्जवि तहायारे अ कह तुम भणसि ? ।
वुच्छिनं पच्छित्तं तदीया वा अवि अ वुत्तं ॥ ५० ॥ व्याख्या-तस्मिन्-प्रायश्चित्तप्रतिपादके कल्पादौ शास्त्रे अद्यापि धरति-अवतिष्ठमाने तथा तहातरि च-प्रायश्चित्तदातरि गीतार्थे चारित्रिणि गुरौ चावतिष्ठमाने कथं त्वं भणसि ? अत्यन्तासम्बद्धत्वान्नेदं वक्तुमपि उचितमितिभावः । अत्र त्वमित्येकवचनमर्हदाज्ञाविरोधकत्वेन तस्यानन्तसंसारिकत्वेन
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org