________________
श्राद्धजोतकल्पे रूपया लोचनं-गुरोः पुरतः प्रकाशनमालोचनं, वचसा प्रकटीकरणमिति भावः । तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनाह, तद्विशोधकं प्रायश्चित्तमुपचारादालोचनाहम् । एवं सर्वेष्वपि उपचारो दृष्टव्यः । १ । प्रतिक्रमणं-सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमोपन्न इत्यादिकमन्यदपि यत मिथ्यादुष्कृतमात्रेणैव शुद्ध यति, न गुरोः पुरत आलोच्यते तत् प्रतिक्रमणाम् ।२। उभयम्-आलोचनाप्रतिक्रमणरूपम् । यच्च प्रतिसेव्य गुरोः पुरत आलोच्यते गुरूपदेशेन च विशुद्धयर्थ मिथ्यादुष्कृतं दीयते तत् तदुभयाहम् । ३ । विवेकः-त्यागः, यस्य चानेषणीयादेः गृहीतभक्तपानादेविधिना परित्यागेनैव शुद्धिस्तद्विवेकाईम् । ४ । व्युत्सर्गः-कायोत्सर्गः, यस्तु कायचेष्टानिरोधरूपकायोत्सर्गोपयोगमात्रणेव दुःस्वप्नादिकमिव शुद्धथति तद् व्युत्सर्गाहम् । ५ । तपः, यत्र प्रतिसेविते निर्विकृत्यादि षण्मासिकान्तं तपो दीयते तत् तपोऽहम् । ६ । छेदः, यथा शेषाङ्गरक्षार्थ व्याधिदूषितमङ्ग छिद्यते, एवं व्रतशेषपर्यायरक्षार्थमतिचारानुमानेन दूषितः पर्यायो यत्र छिद्यते तच्छेदाहम् । ७ । मूलं, यस्यां चासेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलाहम् । ८ । अनवस्थाप्यः, यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनवस्थाप्यः क्रियते, पश्चादाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते तदनवस्थाप्यमेतदुपाध्यायादेर्भवति । ९ । पाराश्चिकः-लिङ्गक्षेत्रकालतपोमिबहिष्कृतस्तपसाऽपराधस्य पारंतीरमञ्चतीत्येवं साधुकारी ततो दीक्ष्यते यः स पाराश्ची, पाराच्येव पाराञ्चिकः । येन कर्मणा पाराञ्चिकः क्रियते, तत्पाराश्चिकाईम् । एतदाचार्यस्यैव भवति । १० । इत्यं तत्प्रायश्चित्तं दशधा भवतीति योग इति गाथार्थः ॥ ४६ ।।
नन्विदानों प्रायश्चित्तं तदातारश्च न सन्त्येव, तत् कः कस्यालोचनां दास्यतीत्यादि ये केचनाविदितागमरहस्याः प्रतिपादयन्ति, तन्निरोकरणार्थमाह
जो भणइ नत्थि इण्हिं पच्छित्तं तस्स दायगा वावि ।
सो कुव्वइ संसार जम्हा सुत्ते विणिहिट्ठं ॥४७॥
व्याख्या-यः कश्चित् क्लिष्टकमैवं ब्रवीति, यदुत-इदानीं प्रायश्चित्तं दोषशोधकतपोविशेषलक्षणं नास्ति, तत्प्रतिपादकग्रन्थाभावादिति । तथा तस्स दायगा वावित्ति, तस्य वा प्रायश्चित्तस्य दायकागीतार्थाश्चारित्रिणो गुरवोऽपि न सन्तीति । स उन्मार्गदेशकत्वादात्मनो दीर्घ संसारमेव करोति । यस्मात् सूत्रे-छेदग्रन्थलक्षणे निर्दिष्टं-भणिमिति गाथार्थः ।। ४७ ॥
किं तद् ? इत्याह
सव्वंपि अ पच्छित्तं नवमे पुव्वंमि तइयवत्थुमि ।
तत्तोचिअ (विय ) निज्जूढं थेरेहिं सुविहिअहिअट्ठा ॥ ४८ ॥ व्याख्या-सर्वमपि-सकलसूक्ष्मबादरातिचारौचित्येनालोचनादि पाराश्चिकपर्यन्तं प्रायश्चित्तं तावन्नवमे प्रत्याख्याननामनि पूर्वे तत्रापि तृतीयवस्तुन्याप्तैरुक्तमभूदिति शेषः । ततोऽपि च-प्रायश्चित्तप्रतिपादकनवमपूर्वान्तर्गततृतीयवस्तुमध्यान् — नियूढं 'ति कल्पव्यवहारादिप्रन्थरूपतया समुद्धृतं स्थविरैः
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org