________________
२४
श्राद्धजीतकल्पे कषायरूपेण । तथा विमर्शन-शैक्षकादिपरिणामपरिज्ञानार्थ परीक्षया । तथा ‘भय-दप्प-पमायतिअं'ति । भयदर्पप्रमादत्रिकेन च। तत्र भयं-सप्तविधम् इहपरलोकादानाकस्मोदाजीवमरणाश्लोकरूपम् । दोधावनवल्गनादिः । प्रमादः-कषायविषयविकथादिस्तेषां त्रिकं-भयदर्पप्रमादत्रिकं तेन । 'पडिसेवा दसह 'त्ति । एवं सहसाकारादिभिः सप्तभिर्भयदर्पप्रमादत्रिकेन व प्रतिसेवा अतिचारापतिर्दशप्रकारा भवतीतिशेष इतिगाथार्थः ।। ४१ ।।
तामेवाह
दप्प अकप्प निरालंब-चिअत्ते अप्पसत्थ-चीसत्थे ।
अपरिच्छि अकडजोगी निरणुत्तावी अ निस्संको ॥ ४२ ॥
व्याख्या-दर्प:-धावनडेपनादिः । तत्र धावनं निःकारणमतित्वरितमविश्राम गमनम , डेपनंगतवरण्डादीनां रयेणोल्लङ्घनम् । आदिशब्दात् मल्लवद् बाहुयुद्धकरण-लकुटादिभ्रमण-वल्गनादिग्रहः १। अकल्पः-अपरिणतपृथ्वीकायादिग्रहणानन्तकाय-बहुबीज-प्रतिषिद्धसचित्तफलाद्यभ्यवहारादिः अनधीतपिण्डेषणाध्ययनसाध्वानीतोपधिशय्याापभोगादिर्वा २। निरालम्बो-ज्ञानाद्यलम्बनं विनाप निःकारणमकल्पिकासेवनकारी । यद्वा-अमुकेनामुकमाचरितमतोऽहमप्याचरामीति ३ । ' चियत्ते 'त्ति । त्यक्तकृत्यः-त्यक्तचारित्रः, अपवदिनासंस्तरे ग्लानादिकारणे वा यदकल्प्यमासेवितं पुनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते । ४ । अप्रशस्तः-अप्रशस्तेन भावेन कामादिवृद्धचाद्यर्थं कल्प्यमपि भुञ्जानः किं पुनरकल्प्यम् ५। विश्वस्तः-प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षतः - साधुश्रावकादेः परपक्षतोमिथ्यादृष्टयादेन बिभेति । यद्वा-अकृत्यं सेवमानः संसारादभीरुर्वा विश्वस्तः ६ । 'अपरिच्छि 'त्ति। अपरीक्षी-युक्तायुक्तविवेकविकलः , यद्वा-उत्सर्गापवादयोरायव्ययावनालोच्य प्रतिसेवनाकारी ७ । अकृतयोगी-अगीतार्थों ग्लानादिकार्ये त्रीन् वारान् कल्प्यमेषणीयं वाऽपरिभाव्य प्रथमवेलायामेव यथा तथाऽकल्प्यानेषणीयग्राही ८ । 'निरणुत्तावी अ'त्ति । निरनुतापी-अपश्चात्तापी योऽपवादेनोप्यकृत्यं कृत्वा नानुतप्यते, यथा मया दुःकृत कृतमिति, यस्तु दर्पणासेव्य नानुतप्यते किं तस्योच्यते ? ९ । निःशङ्को-निरपेक्षः अकार्य कुर्वन् कस्याप्याचार्यादेर्न शङ्कते, नेहलोकस्यापि बिभेतीत्यर्थः । यद्वा-निश्शङ्को-निर्दय इहपरलोकापायशङ्कारहितः १० । एवं दर्पाकल्पयोः सप्तमीयोगादर्षे ऽकल्पे च सति, निरालम्बादिषु त्वाधारे आधेयोपचाराच्च । अयमर्थः-आधारे-प्रतिसेवावति पुरुषे आधेयोपचाराचचषापि दशधा प्रतिसेवा भवतीति गाथार्थः ।। ४२ ॥
अथ प्रतिसेवनापदेषु प्रभूतेष्वेकमप्यनालोचितं महतेऽनर्थाय भवतीति । तथा च श्रीभगवद्वचः
पायच्छित्तस्स ठाणाई संखाइयाई गोयमा !।
अणालोइअं तु इकपि ससल्लं मरणं मरइ ॥ ४३ ॥ य व्याख्या-प्रायश्चित्तमतिचारविशुद्धयर्थं गुरुदत्तं तपः, तस्य स्थानानि-अतिचारा येषु प्रायश्चित्तं दीयत इत्यर्थः । सङ्घयातीतानि सन्तीति भगवान् वीरः श्रीगौतमं प्रति प्राहेतिसम्बन्धः । 'अणालोइयं
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org