________________
अतिचारापत्तिर्दशधा
२३
व्याख्या-आलोचनापरिणत-एकान्तेनालोचनाप्रदानपरिणामः सम्यग-मनःशुद्धथा, न पुनर्बहिवृत्तिमात्रेण गुरुसकाशे-गीतार्थगुरुसमीपे गन्तुकामः सम्प्रस्थितः-प्रचलितः सन् . यदि कदाचिदन्तरापि-मार्गेऽपि गुरुष्वमीलितेष्वपीति भावः । कालं कुर्यान्-मरणमासादयेत् तथाप्यानालोचितातिचारोऽप्याराधक एव ज्ञानादिमोक्षमार्गस्य, न विराधकः शुद्धचित्तत्वेन विधिप्रवृत्तत्वादिति गाथार्थः ॥ ३९ ॥
अथ किमालोचनीयम् ? इति दशमद्वारमभिधातुकाम आह
नाणाइसु मूलुत्तरगुणेसु कोहाइपावठाणाई ।
दव्वाइ य सहसाईहिं सेविअं जं तमालोए ॥ ४० ॥ व्याख्या-ज्ञानादिषु-ज्ञानदर्शनचारित्रेषु तथा मूलगुणेषु
वय ५-समणधम्म १० संजम ५७ वेयावच्चं च १० बंभगुत्तीओ ९। नाणाइतियं ३ तव १२ कोहनिग्गहाई ४ चरणमेअं ॥ १ ॥ इति गाथोक्तेषु प्राणातिपातविरमणादिषु, उत्तरगुणेषु
पिंडविसोही ४ समिई ५ भावण १२ पडिमा य १२ इंदिअनिरोहो५ । पडिलेहण २५ गुत्तीओ ३ अमिग्गहा चेव ४ करणं तु ।। १ ।। इति गाथोक्तेषु पिण्डविशुद्ध-यादिषु, ज्ञानादीनां मूलगुणान्तर्गतत्वेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् । यद्वा-प्रायः प्रथमं ज्ञानादिविषया अतिचारा आलोचनीया इति ज्ञापनार्थम् । ‘सेविअंजं 'ति । सेवितं यत् कालविनयादिहीनश्रुताध्ययनादि प्राणातिपातादि च 'तमालोए 'त्ति । तदालोचयेदितिसम्बन्धः । तथा ' कोहाइ पावठाणाई 'ति । प्राणातिपातादीनां पञ्च पापस्थानानां मूलगुणविषयप्रतिसेवितेऽन्तर्भावाच्छेषमिति पदम्य गम्यत्वाच्छेषं यत् क्रोधादि पापस्थानम् , आदिशब्दात् कृत्याकरणादि · दवाइ 'त्ति । तथाविधद्रव्य-क्षेत्र-काल-भावानासाद्येति शेषः । सहसाकारादिभिर्वक्ष्यमाणलक्षणैर्यदासेवितं तत् सर्वमप्यालोचयेदिति गाथार्थः ।। ४० ।।
अथ के ते सहसाकारादय ? इत्याह
सहसाऽणाभोगाउर-आवय-संकिअ-पओस-चीमंसा ।
भय-दप्प-पमायतिअं पडिसेवा दसह अहवेसा ॥४१॥ व्याख्या-इह सर्वत्र प्रत्येकं तृतीयायोगः कार्यः. ततः ‘सहस 'त्ति । सहसाकारेण, सहसाकारो-ऽविमृश्यकरणमाकस्मिकक्रियेत्यर्थः । तथा-अनाभोगेन-अत्यन्तविस्मृत्या अज्ञानेनेतियावत् । तथा 'आउर 'त्ति । भावप्रधानत्वानिर्देशस्य, आतुरत्वं नाम क्षुपिपासाद्यैः पीडितत्वम् । तथा आपद्भिस्तत्र आपच्चतुःप्रकारा-द्रव्य-क्षेत्र-काल भावभेदात् । तत्र द्रव्यापत कल्पनीयाशनपानादिद्रव्यदुर्लभता १ क्षेत्राऽऽपत् कान्तारादिषु प्रत्यासन्नग्रामादिरहितत्वं क्षेत्रमल्पं वा २. कालापद् दुर्भिक्षादिः कालः ३ मावापद् ग्लानत्वादिः ४। तथा शङ्कितत्वेन-सन्देहेन यदतिचारजातं कृतमकृतं वेति निश्चेतुमशक्यतादिरूपेण । यद्वा-शङ्कितेन-आधाकर्मादिदोषत्वेन शङ्कितभक्तपानादिविषयेन। अत्र निशीथपीठे 'तितिणे 'ति पठ्यते । तत्र तिन्तिणत्व नाम आह गद्यलाभे सखेदं वचनम् । तथा प्रद्वेषेण-क्रोधादि
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org