________________
आलोचनादानक्रमः कारणादेवं विधीयत ? इत्याह-आराधना-आ-सामस्त्येन राधना-ज्ञानादिमोक्षमार्गस्य संसिद्धिः-प्रतिपालना, सशल्यस्य-अनालोचितातिचारजातस्य यतः-कारणान्नास्ति न भवत्येवेत्यागमे, भणितमितिशेषः । इतिगाथार्थः ॥ ११ ॥
अथ सुगुरूणामप्राप्तौ पूर्वगाथास्थतुशब्दसंसूचितेन क्रमेण येषामन्तिके आलोचना प्रदीयते तं क्रमं स्पष्टयन्नाह
आयरियाइ सगच्छे संभोइय-इअरगीअपासत्थे ।
साख्वी-पच्छाकड-देवयपडिमा-अरिह-सिद्धे ॥ १२ ॥ व्याख्या-स्वगच्छे आचार्यादौ-आचार्यसमीपे, आदिशब्दादुपाध्यायादीनां वा पार्श्व आलोचना देया । इयमत्र भावना-प्रायश्चित्त-स्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमखकीयानामाचार्याणां समीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचना देया । अथ स्वगच्छे पश्चानामप्यभावस्तर्हि किं कार्यम् ? इत्याह- संभोइय 'त्ति । स्वगच्छे आचार्यादीनामभावेऽन्यस्मिन् साम्भोगिके-एकसामाचार्यादिवति गन्तव्यम् । तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे ' इयर 'त्ति । इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम् । तत्राऽप्याचार्यादिक्रमेणवालोचयितव्यम् । संविग्नाऽसाम्भोगिके गच्छे पश्चानामभावे 'गीय 'त्ति । पदेकदेशे पदसमुदायोपचाराद् गीतार्थः । एतच्च विशेषणं पार्श्वस्थ-सारूप्य-पश्चात्कृतानां त्रयाणामपि योज्यम् ।
___ ततश्चोयमर्थः-पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वस्थे असति गीतार्थस्य सारूपिकस्य पार्श्व संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः। तस्मिन्नपि गीतार्थसारूपिके असति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोचयितव्यम् । पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इतियोवत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा । अभ्यु. त्थिते वन्दनाप्रतीच्छनादिकं प्रति कृताभ्युपगमे प्रतिक्रान्तो भवेन्नान्यथो विनयमूलत्वाद्धर्मस्य । यदुक्तम्'विणओ सासणे मूल 'मित्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्थस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम् । पश्चात्कृतस्य इत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनाऽन्यत्र गन्तव्यम् । येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चितं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं ततस्तत्रैव तपो वहतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशीलादौ वा भगवान् मुनिसुव्रतखाम्यादिः श्रीवर्द्धमानस्वाम्यादिर्वा समवसृतस्तत्र तीर्थकरैर्गणधरैर्बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्र तया देवतया दृष्टानि, ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थ
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org