________________
श्राद्धजीतकल्पे
करोति - निर्वाहयतीति यावदिति निर्यापः । अच्प्रत्ययः । अपराधकारी यथोक्तप्रायश्चित्तं कर्तुमसमर्थां यथा निर्वहति तथा प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः ७, तथा अपायदर्शी - इहलोकोपायान् परलोकापायच दर्शयतीत्येवंशीलोऽपायदर्शी । किमुक्तं भवति - यः सम्यग् नालोचयति प्रतिकुञ्चितं वाऽऽलोचयति दत्तं वा प्रायश्चितं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुचितं वा करिष्यसि दत्तं वा प्रायश्चित्तं सम्यग् न पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिहलोकापायान् तथा संसारे जन्ममरणादिकं प्रभूतमनुभवितव्यं दुर्लभबोधिता च तव भविष्यतीत्येवं परलोकापायाँश्च दर्शयति सोऽपायदर्शीति भावः । ८ ।
८
एवं प्रकाष्टविधगुणयुक्त एव ' गुरू भणिओ'त्ति गुरुर्भणितः - कथित आलोचनादानयोग्यः । आगम इति शेषः । यदाह चाऽऽगमः -
अहिं ठाणेहिं संपन्ने अणगारे अरहति आलोयणं पडिच्छित्तए, तं जहा - आयारखं १, आधारखं २, ववहारखं ३, उव्वीलए ४, पकुव्वए ५, अपरिस्सावी ६, निज्जवए ७, अवायसी ८' इति ॥ ९ ॥
अथ यदा समग्र गुणालङ्कृतो गुरुर्न प्राप्यते तदा किं विधेयम् ? इत्याह-
<
सुगुरुण अलाभंमि आलोइज्ज सुसंजए ।
संविग्गपक्खिआणं तु गीअत्थाणं च अंतिए ॥ १० ॥
व्याख्या-' सल्लुद्धरणनिमित्त ' मित्यादिगाथोक्तप्रकारेण गवेषणायां कृतायामपि सुगुरूणां ' गीअत्थो कडजोगी' इत्यादिगाथोक्तासाधारणगुणयुक्तानामलाभे - असम्प्राप्तावालोचनां दद्यात् । क ? इत्याह- ' सुसंजए ' सुसंयत, उपलक्षणत्वात् श्रमणोपासकोऽपि । केषामन्तिके ? इत्याह-' संविग्नपाक्षिकाणां ' संविग्नाश्चारित्रिणस्तेषां पक्ष-पक्षपातं साहाय्यं कुर्वन्तीति संविद्मपाक्षिकाः । ' सुद्धं सुसाहुधम्मं० ' ' वंदइ न य वंदावइ० ' इत्याद्युपदेशमालादिशास्त्रान्तरोक्तस्वरूपास्तेषां कीदृशानाम् ? इत्याहगीतार्थानां चशब्दस्यैवकारार्थत्वेन व्यवच्छेदफलत्वान्नागीतार्थानामन्तिके - समीपे ।
अयमर्थः - सप्तयोजनशत्यां द्वादशभिर्वर्षैश्च यदि तादृग्गुरुर्न प्राप्यते तदा संविग्नपाक्षिकाणामन्तिके आलोचयेन्न पुनरनालोचितातिचार एवावतिष्ठते, सशल्यस्यानाराधकत्वात् । गवेषणं कुर्वाणस्त्वन्तराऽपि मृत आराधक एव । यद्वक्ष्यति - ' आलोयणापरिणओ० ' इत्यादि । अधिकपदमधिकाक्षरं वोऽधिकार्थसंसूचकं भवतीति संविग्गपक्खिणं तु' इत्यत्र तुशब्दस्तदभावे पश्चात्कृत - सारुपि - प्रभृतीनां पार्श्वेऽप्यालोचनां दद्यादिति वक्ष्यमाणोक्त श्लोकार्थक्रमसूचनार्थ इतिगाथार्थः ॥ १० ॥ अथ संपिाक्षकाद्यभावे किं कर्त्तव्यम् ? इत्याह
तयभावम्मि आलोए सिद्धे काऊण माणसे ।
आराहणा ससल्लस्स जओ नत्थित्ति आगमे ॥ ११ ॥
व्याख्या
- तेषां - संविग्नपाक्षिकादीनामप्यभावे - ऽप्राप्तावालोचयेत् - स्वापराधपदानि प्रकाशयेत् । किं कृत्वा ? इत्याह-सिद्धोन् - ज्ञानसङ्क्रान्ताशेषत्रिभुवनवस्तून् मानसे कृत्वा सिद्धसमक्षमित्यर्थः । कुतः
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org