________________
मुञ्जराजप्रबन्धः । तत्सुतो लाषाकः । स कच्छेश्वर एकविंशतिवारत्रासितमूलराजः समजनि । द्वाविंशतिवेलायां कपिलकोटस्थितो लापाको रुद्धः। माहेचनाम्नः पदातेराकारणं प्रहितम् । सोऽन्तरावस्थितश्रीमूलराजभिल्लैः प्रहरणानि गृहीतः। ततः तसिन् निरायुधे समागते लापाकेन राज्ञा समं युद्धमकृत । लाषाको रणभुवि पतितो राज्ञा रोषाचरणेनाहतः । ततो लाषाकस्य मात्रा राजा शप्तः। ततः प्रांते स्फोटिका समजनि । ततो राज्ञा तांबूलमध्येऽलिका विलोक्य स्मार्ताः शुभमरणं पृष्टाः । तैरुक्तं-इंगिनीं साधय । तथा विहिते सप्तमदिने स्वर्विमानमायांतं वीक्ष्य मुदितः। 5 पुनरन्यतो गोकार्यमृतस्त्रपाकमानयित्वा (?) समेते तत्र पुनः सार्ताः पृष्टाः । एवं सति सुखमृत्यौ कथं मम कष्टमृत्युरुपदिष्टः । तैरुक्तं-राजन् ! कस्तव भूमौ गोग्रहं तनोति । एवं विपन्नः॥
५. मुञ्जराजप्रवन्धः (P.)
६२२) श्रीउज्जयिन्यां नगर्या सिंहो नृपः । स एकदा मृगयां गतः। तत्र शरवणमध्ये [बालः] पतितो दृष्टः। नृपेण गृहीतः । प्रच्छन्नमन्तःपुरे प्रहितः। देव्यैकया सूतिकर्माणि कृतानि । बालस्य मुञ्ज इति नाम दत्तम् । स्नेहेन 10 वृद्धिं गतः । इतो नृपस्यापरस्यां पन्यां सिन्धुलनामा पुत्रो जातः। उभावपि निरवशेषभावेन वृद्धिं गतौ परिणीतौ च । इतो नृपो वृद्धो जातः । एकदा मुञ्जावासे गतः। आवासान्तर्मुञ्जः सपत्नीकोऽस्ति । नृपेण बहिःस्थेनोक्तम्रे मध्ये कोऽप्यस्ति ? । नृपशब्दं श्रुत्वा मुञ्जश्शंकितः । प्रियां भद्रासनाधो निवेश्य व्याहृतवान्-देव! मध्ये पादमवधारयत । नृपः सिंहासने उपविष्टः । कुमारः प्रणम्य भद्रासने निविष्टः। आदिश्यतां कार्यम् । नृपेणोक्तम-राज्यं कस्य दीयते । मनः प्राह-तातःप्रमाणमत्र । वत्स! त्वं मम पालितः पुत्रः। सिन्धुलस्त्वङ्गजः। 15 व्यतिकरे उक्ते मुझेनोक्तम्-मम भ्रातुर्देव ! राज्यं भवत्वहं तस्य सेवां तावत् करिष्यामि । नृपेणोक्तम्-एवं मा भण । राज्यं तवैव । अधुना परावर्ते कृते जनो न मन्यते । परं मम शिक्षां शृणु । सिन्धुलो नापमान्यः । मत्री रुद्रादित्यो न पृथक्कार्यः । गोदावरी ती| परतीरे न गम्यम् । तेन सर्व मानितम् । नृपे बहिर्गते भेदभयाद्राज्ञी खड्नेन पातिता । तस्या आक्रन्दं श्रुत्वा नृपो वलितः । वधूं पतितां दृष्ट्वा प्राह-रे पाप! किमकार्यमकार्षीः? अपरामपि शिक्षा न करोषि । अतोऽनोऽपि निवेश्यः, वाक्यभङ्गभयात् । मुञ्जस्य राज्यं जातम् । नृपो दिवं ययौ ।20 स सिन्धुले सदा प्रसादपरो वर्त्तते । जनः सर्वोऽपि सिन्धुलेऽनुरक्तः। एकेन मत्रिणा प्रोक्तम्-देव ! सिन्धुलात्तव विनाशो भावी । नृपेण तद्वचनमङ्गीकृत्य ग्रासो निषिद्धः । सिन्धुलः स्वावासे तिष्ठति । एकदा नृपो राजपाव्या गजारूढो व्रजन् सिन्धुलगवाक्षाधः प्राप्तः । सिन्धुलेनोपरि निविष्टेन दक्षिणकरे आदर्श सति वामकरण करी वरत्रया धृतः । तदनु पुच्छे धृतः । पदमपि न चलति । आधोरणे नैष्टिष्ट । नृपेणोक्तम्-करी किं न चलति ? देव नृसिंहेणाक्रान्तः । तावत्कुमारो दृष्टः । वत्स! मुश्च । तेनोक्तम्-अहं देवपादानां केनाभक्त उक्तः, यद्रासः स्थितः। 25 गजं मुञ्च, द्विगुणं गृहाण । सिन्धुलेनोक्तम्-एष गजस्त्रुटितः, अपरमानयत । नृपस्तु द्वितीये निविष्टः। करी तत्रैव पतितः । नृपेण बलं बन्धोदृष्ट्वा वर्धापनं प्रारब्धम् । पिशुनेन मत्रिणा देव उक्त:-एप त्वां हनिष्यत्येव । नृपेण देशपट्टो दत्तः। सोऽर्बुदे कासहृदग्रामे गतः। दीपदिने श्मशाने गतः। तत्र सूकरं वीक्ष्य बाणसन्धानमकरोत् । इतो र्जन (?) सुप्तः। तेन प्रत्यासन्नं मृतकं जानोरधः प्रदत्तम् । तत् सलसलितम् । तेन वामकरेण वारितम्-बाणेन शूकरो विद्धः। तत्साहसेन तुष्टः, वरं याचस्व । तेनोक्तम्-मालवराज्यं देहि । तव भाग्यं न, परं तत्र याहि । तव पुत्रस्य 30 भविष्यति । पुनर्नृपाहूतः स्वघरे गतः। राज्ञा दुर्जनवचसा नेत्राकर्षणं कृतं सिन्धुलस्य । तत्पुत्रो भोजः। स नृपस्यातीव वल्लभः । यौवनाभिमुखो जनेनानुरागात् सेव्यते । अतस्तेन कूटमत्रिणा नृपस्योक्तम्-देव! त्वां हत्वा कुमारो राज्यं ग्रहीष्यति । राज्ञा रुद्रादित्येन मत्रिणा छन्नमाज्ञापितः । मत्रिणा एकान्ते नीत्वा नृपाज्ञा उक्ता । कुमारेणोक्तम्-शीघ्रं कुरु । किमपि राज्ञः कथापयसि ? । तेन 'मान्धाते'ति लिखित्वा पत्रिकार्पिता । काले दर्शनीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org