________________
10
१२२.
15
॥ बीजपूरप्रबन्धः ॥
९२८५) एको न भव्य इति [ रात्रौ ] पाठितेन शुकेन सभायां [ प्रातः ] केनाप्युत्तरमददता षण्मासावधिं 5 याचित्वा वररुचिर्देशान्तरं भ्रमन् श्वमोचादानासमर्थपशुपालं लात्वा वस्त्रान्तरितस्कन्धारोपितश्वः । नृपसभां नृपप्रश्नः । स प्राह-देव ! लोभ एको न भव्यः । यतः
पुरातनप्रबन्धसङ्घ
(३८१) लोकं विलोक्य धनधान्यवरेण्यपुण्यं प्राप्य प्रधानवनिताजनिताभिरामम् । किं मूढ ! कांक्षसि मुधा वसुधातलेऽस्मिन् रे जीव पीवरतरं सुकृतं कृतं न ॥
(३८२) अहो लोभस्य [साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ ] (३८३) तावन्नीतिर्विनीतत्वं मतिः शीलं कुलीनता । यावन्नहि जयी लोभः क्षोभं नाभ्येति जन्तुषु ॥ ॥ एको न भव्य - प्रबन्धः ॥
(३८४) कविषु कामिषु भोगिषु योगिषु द्रविणदेषु जितारिषु साधुषु । धनिषु धन्विषु धर्मधनेषु च क्षितितले नहि भोजसमो नृपः ॥ (३८५) किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता, किं वा विद्याधरोऽयं किमथ सुरपतिः किं नलः किं कुबेरः । नायं नायं न चायं न खलु नहि न वा नापि नासौ न चैष, क्रीडां कर्तुं प्रवृत्तः स्वयमपि च हले भूपतिर्भोजदेवः ॥ (३८६) क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
Jain Education International
+ एतदग्रे टिप्पन्यां इमे श्लोका लिखिता लभ्यन्ते
देव त्वं जय ! कासि ? लुब्धकवधूः पाणौ किमेतत्पलं, क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गनाः, गीतान्धा न चरन्ति देव ! हरिणास्तेनामिषं दुर्बलम् ॥ सीतेति नाम । वादी नष्टः ।
चेतोहरा युवतयः स्वजनोऽनुकूलः सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः ।
गर्जन्ति दन्ति निवहास्तरलास्तुरङ्गा राजन् ! न किंचिदिह नेत्रनिमीलनेऽस्ति ॥ १ ॥ शीतना न पटी न चानिशकटी नास्ति द्वितीया पटी, निर्वाता न कुटी प्रिया न गुमटी भूमौ च घृष्टा कटी । वृत्तिर्नारभटी न तुन्दलपुटी नाथास्ति मे सङ्कटी, श्रीमद्भोज ! तव प्रसादकरटी भंक्तां ममापत्तटी ॥ २ ॥ वक्त्रांभोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्य स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं, स्वच्छेऽत्र मानसेऽस्मिन् कथमवनिपते तेऽम्बुपानाभिलाषः ॥ ३ ॥ आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्म त्संकथयैव पार्थिवसुतः संप्रत्यसौ लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्भोऽम्बुधेर्यातस्तीरतपोवनानि तपसे वृद्धो गणानां गणः ॥ ४ ॥ शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डभाण्डावधिस्त्यागस्तर्कुकवाञ्छितावधिरियं क्षोणी समुद्रावधिः । श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रणामावधिः श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥ ५ ॥ सुरताय नमस्तुभ्यं जगदानन्ददायिने ।
अत्र विजया - आनुषङ्गि फलं यस्य भोजदेव भवादृशाः ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org