________________
5
६४
15
पुरातनप्रबन्धसङ्घहे.
एकवीसवार भणनेनैकविंशतिसहस्रा दापिता मत्रिणा ।
१९३५) एकदा वटकूपपुरेऽलङ्कारिणः श्रीमाणिक्यसूरयः सन्ति । ते मन्त्रिणा आकारिता अपि नागताः । मन्त्रिणा स्वरूपेण कथापितम्
( १९५)
मन्त्री किञ्चिद्रुषितः स्तम्भतीर्थपौषधागारं लुण्टाप्यैकत्र वस्तु दधे । आचार्यास्तदनु समायाता मिलिताः 10 मन्त्रिणः । उक्तं च-मत्रिन् ! सङ्घभारोद्धारधुरीणे त्वयि कथमस्माकं पौषधागारे उपद्रवः । मत्रिणोक्तम् - पूज्यानामनागमनमेव हेतुर्नान्यत् । पुनः सर्वमर्पितम् । संघार्चासमये तैर्व्याहृतम्
(१९४) उत्प्लुत्योत्लुत्य गतिं कुर्वन् गर्वादखर्वजडबुद्धिः । वटकूपकूपमध्ये निवसति माणिक्यमण्डूकः ॥ पुनराचार्यैः प्रतिस्वरूपं प्रहितम् -
गुणालीजन्महेतूनां तन्तूनां हृद्विपाटयन् । वंशार्द्धार्द्ध परिस्फूर्त्या रे पिञ्जन ! विजृम्भसे ॥
(१९६) एकं वासः सुरेशैः कृत सुकृत शतैर्जन्मकाले जिनानां दत्तं दीक्षाक्षणे वा ध्वजवसनमथो एकमेवाम्बरं च । सूर्यादीनां ग्रहाणां पुनरपि विधिना दत्तमस्मिन् क्षणेऽसौ सत्पात्रैर्भूरि यच्छन्नधरितसुरपो नन्दताद् वस्तुपालः ॥ तदनु ते पुस्तकादि दवा क्षमित्वा च प्रहिताः ।
९१३६) तथा यत्र यत्र प्रासादं कारयति तत्र तत्र निधिः प्रकटीभवति । एकदा श्रीशत्रुञ्जये शृङ्गोपरि कपर्दियक्षप्रासादः प्रारब्धः । पाषाणान् विदार्थ मण्डयध्वम् । चिन्तितम् - कथमत्र निधिः प्रकटीभविष्यति । मूलादपि • टङ्किकाभिर्विदार्य पाषाणे द्विधाकृते सर्वैरप्यन्तः सप्र्पो दृष्टः । तदा मंत्री तत्रासीत् । स्वयमायातस्तदाश्चर्यविलोक20 नाय । यावत्पश्यति तावदेकावली हारः । करेण गृहीतः । सर्वैरपि दृष्टः । तत्र पपाठ कपर्द्दिस्तुतिम् -
Jain Education International
( १९७) चिन्तामणिं न गणयामि न कल्पयामि कल्पद्रुमं मनसि कामगवीं न वीक्ष्ये । ध्यायामि नो निधिमधीनगुणातिरेकमेकं कपर्द्दिनमहर्निशमेव सेवे ॥
तदनु प्रासादः कारितः ।
(१३७) एकदा मत्रिणा चिन्तितम् - यं श्रीशत्रुञ्जये कर्मस्थाये मुच्यते स देवद्रव्यं विनाशयति । एवं 25 विचिन्त्य पौषधागारे श्रीविजयसेनसूरिपार्श्वे समेतः । गुरवो वन्दिताः । लघ्वाचार्याः श्रीउदयप्रभसूरयोsपि । ते तु मन्त्रिणा सप्तशतयोजनानामन्तर्यः कोऽपि विद्वान् तमानीय पाठिताः सन्ति । तपोधनानामपि पञ्चविंशतिर्नमश्चकार । तपोधनमेकं वृद्धं शान्तं नमस्कारपरावर्त्तनपरं दृष्ट्वाऽऽह - भगवन् ! देवद्रव्येण रक्षितेनोपेक्षितेन वा श्रेयः । । यदि रक्षितेन तर्ह्यमुं वृद्धं यतिं प्रसादीकुरुत । यं शत्रुञ्जये नयामि । अपरे तत्र भक्षकाः । गुरुभिरुक्तम्–न युक्तमेतत् । बलादपि मानिता गुरुवः । तैस्तपोधनाग्रे प्रोक्तम्-यन्मत्री वक्ति तत्का30 र्यम् । तेनोक्तम्-भगवन् ! दीक्षा मया निस्तारार्थं जगृहे । तत्र द्रव्याशनेन कथं मलिनयामि ! मन्त्रिणा प्रोक्तम्एतन्मालिन्यं न किन्तु भूषणम्, चैत्यद्रव्यरक्षणेन । आग्रहं कृत्वा प्रहितः । स स्वदर्शनमार्गस्थो' देवलेखकं विलो - कयति । एकदा आदेशवर्त्तिभिः खादकैरुक्तम्- भगवन् ! यूयं तीर्थमठपाः । भवतां पार्श्वे देवनमस्यागताष्ठकुरा व्यवहारिणश्चोपविशन्ति | एभिर्मलिनैजीर्णैश्चीवरैर्भव्यं न । वस्त्रमध्ये किं दूषणम् । मनोहराणि वस[ना]नि परि2 B दर्शनाचाररतः ।
1 B दीक्षा नमस्कारपरावर्तनार्थे गृहीता ।
For Private Personal Use Only
www.jainelibrary.org