________________
अथ श्रीशद्वेश्वरपार्श्वजिनस्तवनम् । ऐंकारस्मृतिसावधानमनसा स्तोतुं प्रवर्ते महा__मोहापोहपरायणं जनमनोऽभीष्टार्थसार्थप्रदम् । श्रीशद्धेश्वरभूषणं भगवतामप्रेसरं वासव
श्रेणीवेणिमिलत्प्रसूनपटलीमाध्वीकधौतक्रमम् ॥ १॥ मूर्तिस्ते जिनराज ! राजति जगदारियविद्राविणी __ स्वोषिन्नयनोन्मदालिपटलीपेपीयमानप्रभा । शारीरान्तरदुःखतापजनितं खेदं नयन्ती व्ययं ।
वल्लिः कल्पतरोरिव त्रिभुवनप्रख्यातसौरभ्यभूः ॥ २ ॥ कामं दर्शनतोऽपि मन्नयनयोरुल्लासमातन्वती
मञ्चेतःकुमुदं विकाशयितुमप्यताय बद्धादरा । मद्ध्यानार्णवपूरपूरणपटुः स्वामिंस्तवोल्लासिनी
मूर्तिः किञ्चन चन्द्रकान्तलहरीप्रागल्भ्यमभ्यस्यति ॥३॥ मूर्तिस्ते महनीयमोहमदिरोद्गारावघूर्णदृशां
व्याक्षेपं परमौषधीव नियतं निर्नाशयन्त्यञ्जसा । येषां लोचनगोचराश्चिरमभूद्रोमाञ्चपुष्पाञ्चिताः
ते किंनाम न नाम(?)वामनयनालावण्यलक्ष्मीजुषः ॥ ४ ॥ मूर्तिस्ते स्नपनैन विभ्रमभरैः सांवर्त्तिकैश्चक्षुभे ___ पौलोमीचललोचनाञ्चलमिलद्भूभङ्गसंसर्गिभिः ।
आबिभ्रत्कमठोपसर्गसहनी धैर्यप्रधानक्षमा . खामिंस्तत्किममन्दमन्दरगिरिस्पर्द्धासमृद्धादरा ॥ ५ ॥ धाम ध्यायसि यत् पुरा त्रिजगतीधामातिशाधि स्फुरन्
तत्सङ्क्रान्तिवशादिवेयमनिशं मूर्तिस्तवोद्योतिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org