________________
त्वल्लावण्यमयो वपुर्युतिभरः किं वर्ण्यते सार्व! हे __ज्योतीरूप ! जगत्पतेस्तव कलां जीवोऽपि वक्तुं क्षमः । किं नोऽद्यापि मयाऽनया खलु धिया शक्रादिपूज्यक्रमः __ वर्गङ्गाजलधौतकाश्चनगिरेः शृङ्गारोचिःप्रभः ॥४॥ योऽयं निश्चलतामगाहत भवत्पादाब्जसङ्घट्टतः
कल्पान्तेऽपि घनाघनं डलवडी(?)विध्वंसदन्तावलः । आस्तां ते महिमा समग्रजनताऽभीष्टार्थसंपादकः सोऽयं हकाघ(?)माश्रितो वरतिशः(?)शत्रुञ्जये मुक्तिदः ॥५॥ सज्योतिर्मय ! मञ्जुलाशयशय ! प्रक्षीणकर्मोञ्चय ! _प्रोद्दामातिशय ! प्रसिद्धविजय ! स्याद्वादविद्यालय । . विस्फूर्जत्समय ! प्रसन्नहृदय ! त्रैलोक्यदत्ताभय !
प्रध्वस्तस्मय ! भव्यपङ्कजवनीसूर्योदय ! त्वं जय ॥६॥ ये कुर्वन्ति धृतोत्सवास्तव विभो! पादद्वयीं मस्तके
भक्केभूमितया विपक्षदलनी मन्दारवल्लीनिभाम् । शुद्धाचारविचारसारकलितैर्भूतं विशुद्धात्मभि
स्तैर्लोकान्तिमवर्तिनः शमधरै विश्वत्रयस्योपरि ॥७॥ किं त्रैलोक्यजनांग भिंदति कसद्भावे भवान्नो रवि
नित्योद्योतकरस्तमश्चयहरः श्रीसिद्धिरामावरः । । मिथ्यावादिजनौघघूकनिकरैदृश्यो न भूमीतले
ब्रह्माध्वा भगवान् गतास्तसमयो गम्यो न राहोः किल ॥८॥ त्वद्वकाद्भुतदुग्धसागरवरादुत्थैर्वचोभिर्वनैः
सिक्ता ये भविनस्त एव विरता मोहप्रमीलारयात् । त्यक्त्वाऽनन्तभवार्तिदामकलुषास्तेजोमयं चिन्मयं
भुञ्जन्ते शिवशर्म सुन्दरधियः शुद्धाशयाः शाश्वतम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org